पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/298

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः ५-६] अयनदृक्कर्मसाधनम् २७३

[इष्टशरसाधनविधयः]

पातेऽथ फलं चलोद्भवं व्यस्तं स्वद्युच्चरात्परिस्फुटः ॥ स्फुटपा[तयु]ताद् ग्रहाद् गुणश्छेपघ्नश्चलकर्णहृच्छरः ॥ ५ ॥ करणागतपातसंयुतान्मन्दस्पष्टखगाद्गुणोऽथवा ।

परसायकताडितो हृतश्चलकर्णेन तदिष्टसायकः ॥ ६ ॥

चक्राच्च्युतपातवर्जितान्मन्दस्पष्टदिवौकसोऽथवा ।

जीवा परबाणसङ्गुणाऽभीष्टेषुश्चलकर्णभाजिता ॥ ७ ॥

उक्त्तवच्च भगणाच्च्युतपाते शीघ्रजाः फलकलाः स्फुटपातः । तद्वियुत्स्फुटखगाद् गुणो वा कर्णहृच्छरहतश्छर इष्टः ॥ ८ ॥ [अयनदृक्कर्मसाधनविधयः] सब्रिगेहखचरोत्क्रमज्यका ताडिता परमयाऽपमज्यया । क्षेपकेन च हरेत् त्रिमौर्विकावर्गितेन फलमत्र दृक्कलाः ॥ ९ ॥ Text of Ms. A :

[5] पातेघफलं चलाद्भवं व्यस्तं स्वद्युचरात्परिस्फुटः ॥ स्फुटयाताद्ग्रहाद्गुणा क्षेयघ्नश्वलकर्णहृछर:
[6} करणागतयातसंपुतान्दर्यः स्पषुखगाद्गुणो यचा

यरसायकत्पडितो हृतश्चलकर्णेन समिष्टसायकः

[7] चक्क्राच्चुतयातर्वजितान्मन्दस्पष्टदिवौकसाथवा

जीवा परवाणसङ्गुणाभीष्टेषुश्चलकर्णभाजिता ।

[8] उत्तवच्च भगणच्पुतपाते शीघ्रजाः फलकलाः स्फुटपातः

तद्वियुत्स्फुटस्वगागुणो वा कर्णहृछरहतश्छर इष्टः ॥

[9] सत्रिगेहखचरोत्क्रमजीवा ताडिता यरमया परज्पया

क्षेपकेन व हरेत्त्रिमौर्विकावर्गितेन फलमत्र दित्कालाः । Ms. B : 5 a चलांद्धवं 5 d °श्चलकर्ण० 6 b *न्दर्पः 9 b परमया परज्यया