पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/299

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

274 वटेश्वरसिद्धान्ते उदयास्तमयाधिकारे अधिकार: VI त्रिभयुतखचरस्य वोत्क्रमज्या शरगुणिताऽब्धि[शराब्धि]बुद्धि[८४५४]भक्ता ।

अयनविशिखयोः समान्यदिक्त्वे ऋणधनमम्बरगे फलं दृगाख्यम् ॥ १० ॥

ग्रहभुजगुणवर्जिता त्रिभज्या जिनलव[२४']मौर्विकयेषुताडिता च । त्रिगुणकृतिहृताऽयनेषुकाष्ठासमविषमे तु ऋणं धनं ग्रहेषु ॥ ११ ॥ ग्रहदोगुणवर्जिता त्रिभज्या विक्षेपाभिहताऽथवा विभक्ता । कृतबाणकृतोरगैः [ ८४५४] फलं स्यात् प्राग्वद् व्योम्निचरे दृगाख्यलग्नम् ॥ १२ ॥ त्रिभयुग्द्युचरोत्क्रमापमज्या शरघातात्त्रिगुणाप्तमुक्त्तवद्वा । विवरं त्रिगुणोद्धृतं शरत्र परमेष्टापमयोर्ग्रहे यथोक्त्या। १३ ॥ परमापमबाणसंहतिः त्रिगुणाप्ता गुणकः कलादिकः । त्रिगुणेषुवधोऽब्धिसायकश्रुतिधी[८४५४]हृद् गुणकोऽथवा भवेत् ॥ १४ ॥ भत्रयाधिकखगोत्क्रमापमज्यागुणौ गुणगुणौ विभजेच्च तौ । तीर्थकृल्लव[२४']गुणत्रिमौविकाभ्यां क्रमादुदितवच्च फलं ग्रहे। १५। Text of Ms. A; [10] त्रिभयुक्तस्वरचस्प वोत्क्रमज्पा शरगुणिताद्धिवुद्धिरुक्ता अयनविशिखयोस्सामान्पदिव्क्ते फलमृणमम्छरगोधने मृगाख्पाः ! 11] ग्रहभुजगुणवर्जिता त्रिभज्पा जिनलवयोर्विकयेषु गुणाहता च त्रिगुणकृतिहतायनेषुकाष्टासमविषमत्वज्ञणं ग्रहं धनेषु [12] ग्रहदोर्गुणवर्जिता त्रिभज्या र्विज्ञेयाभिहताथवा विभक्ता। कृतवाणकृतोरगैः फलं स्पात्प्राग्वद्योम्निवरे मृगाक्षलग्नम्

[13] त्रिभयुग्द्युचरोत्क्रमायमज्पा विक्षेपा शरघातात्त्रिगुणाप्तमुत्तवद्वा विवरं त्रिगुणोद्धृतं गरघ्नं यरमेष्णुयमयो ग्रहेथथोक्त्या
[14] परमायमवाणंसंहते त्रिगुणाप्तं गुणवत्कलादिकः

त्रिगुणोषुवधोच्चिसायकश्रुतिधीहृद्गुणकोथवा भवेत् ।

{15] भत्रयाधिकस्वगाः क्रमायमज्यागुणौ गुणगुणौ विभर्यजतौ

तीर्थकृल्लवगुणत्रिमौर्विकाभ्पां क्रमादुदितवत्फलं ग्रहे।

Ms. B : 10 c °दिक्त्वे 11 c ०पनेषु।” 12 b विक्षेपाभि° 15 b °पजतौ