पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/297

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

VI. उदयास्तमयाधिकारः [उदयास्तमयस्य दिक्] प्रागुदेति लघुरल्पभुक्तिकोऽस्तं व्रजत्यलघुभुक्तिरुष्णगोः ॥ ज्येष्ठभुक्तिरलघुस्समुद्यति स्वल्पभुक्तिरपरेऽस्तमेत्यलम्। १ ॥ पश्चाद्विधुभार्गवेन्दुजा उद्यन्त्यर्कजभूजसूरयः । प्राच्यां ज्ञसितौ च वक्रगावस्तं व्यस्तदिशि स्वदृग्वशात् ॥ २ ॥ [उदयास्तमय-कालांशाः] कालांशकैर्नव[९]भिरुष्णुगुलुप्तदी[प्ति]र्दृश्यो भृगुर्गुरुबुधार्किकुजाः क्रमेण ॥ तैर्द्वयन्तरैस्तुहिनदीधितिरर्क[१२]संख्यैः वक्री बुधश्च वसु[८]भिर्भृगुनन्दनोऽपि ॥ ३ ॥ [ग्रहाणां परमशराः]

तुरग[७]शिव[११]शिलीमुखा[५]ङ्क[९]नन्दाः[९] तिथि[१५]गुणिताः कलिकाः शरो महीजात् ॥
समुदगपमवत्तथा च याम्यो दिविचरपातयुतौ क्रियात्तुलाच्च ॥ ४ ॥

Text of Ms. A : [1] प्रागुदेति लघुकल्पभुक्तिकोस्तं व्रजत्पलघुभुक्तिरुष्णगोः ज्पेष्टरुक्तिरलघुस्समुद्यति स्वल्पभुक्तिरपररुतमेत्पलम् ।

[2] यश्चाद्विधुर्भावेर्गनुजा उद्यन्तार्कजभूजसूरयः

प्राच्पा ज्ञसितौ च वक्रगावस्तव्यस्तदिशिखदिग्दृशः ।

[3] कालाशकैर्नवभिरुष्णगुलुप्तदीर्दृश्पो नुगुर्गुरुबुधार्किकुठः क्रमेण

तैद्द्वन्तरैस्तु हिनदीघितिरर्कसंख्पैः वक्री वुधश्च वसुभिर्नुगुनन्दनोयि ।

[4] तुरगशिवशिलीमुख्पङ्कनन्दास्तिथिगुणिकाः कलिका शरो महीज्पत्।

समुदगयमवत्तोयथां ग्राम्पो दिविचरयातयुतौ क्रियातुलाच्च । Ms. B.: 2 a पश्चा° °भावेर्गन्दुजा 4 b शरौ