पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/287

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [ अधिकार: V

[सकृद्विधिना स्थित्यर्धयोरानयनं स्पर्शमोक्षकालिकक्षेपसाधनञ्च] शरशकल[1/2]पलैर्युत विहीनं स्थितिदलमोजपदे वियुक्समेतम् । भवति युजि पदे तदाद्यमन्त्यं स्थितिदलक्षेपकलाः शरेऽन्यथा स्युः ॥ ५ ॥
स्पर्शमोक्षसमये शिलीमुखौ स्तो विमर्दशकलं निमीलने । 

दर्शने स्थितिदलोक्तकर्मणा भास्करग्रहणमेवमेव हि ॥ ६ ॥ [ लम्बनसंस्कारः] नतघटिकाङ्ग[६]समाहतिरंशाः स्वमृणमिने परपूर्वकपाले । [तदपमचापपलांशयुतोनं त्रिभरहितं द्युदले नतशङ्कू॥ ७ ॥ खरसनाग(८६०)हता नतमौर्विका] द्युदलशङ्कुगुणा त्रिभमौर्विहृत् । भवति लम्बनमुक्त्तकपालयोः तिथिघटीष्वसकृत्स्वमृणं क्रमात्। ८ । [नतिसंस्कारः] द्वि[२]गुणा नतशिञ्जिनी हृता क्षितिशक्रै[१४१] र्न[ति]लिप्तिकामितिः ॥ तत्कालशरोनसंयुतस्स्पष्टोऽतिग्मकरस्य सायकः ॥ ९ ॥ Text of Ms. A : [5] शरशकलयलैपुतं विहीनं स्तितिदलमौजयदं विपुक्समेतत्। भवति युजि यदे तदत्र्पमर्त्पं स्थितिरलदद्वल्पकल्पः शरेन्पथा स्पुः [6] स्पर्शमोक्षसमपे शिलेमुखौ स्तो विमर्दशकलं निमीलने दर्शने स्थितिदलोक्तकर्मणा भास्करग्रहणमेवमेव हि। [7] नतघटिकाङ्गसमाहतिरंशाः स्वमृणमिने यरैयुर्वकयाले 8 द्युदलशंकुगुण्पत्रिभमौर्विका भवति लंवनमुक्तकयालयोः तिथिघटाष्वसकृत्खमृणं क्रमात् [9] द्विगुणा नतशिञ्जिनी हृता क्षितिशक्रैर्नतिलिप्तिकाविधिः तत्कालशरौनसंयुतास्स्पष्टास्तिग्मकरस्प सापक: Ms. B : 5 c तदन्त्यमर्त्य | 8 c ०लंबनमुक्वकयालयोः 9 d°स्तिग्मकरस्य सायकः