पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/288

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

• परिच्छेदः 5] “ पर्वज्ञानविधि: 263

[सूर्यग्रहणविषये स्थित्यर्धविमदर्धवलनादिसाधनम्]

साधयेदकृतलम्बना तिथिर्लम्बनं स्थितिदलोनसंयुतात् ॥ तत्तिथावसकृदत्र पूर्ववत् स्पर्शमोक्षसमयौ परिस्फुटौ ॥ १० ॥ स्पर्शमध्यमविमुक्त्यनेहसामन्तरे स्थितिदले परिस्फुटे । एवमेव हि विमर्दखण्डके. प्रोक्तवच्च वलनादिकाः क्रियाः ॥ ११ ॥ [रव्यादीनां षाण्मासिकचालनम्] ग्रहणाद्ग्रहणं तदोर्ध्र्वगं जिज्ञासुगृहपूर्वक क्षिपेत् । प्रकृतग्रहमध्यभास्करे चन्द्रेऽशादि तदुच्चपातयोः ॥ १२ ॥

पञ्च[५] संकृति[ २४]रुडूनि[ २७] षट्[६] क्रमात् : पञ्च[५] दृग्दृश[२२]गणा[१२]स्त्रिसायकाः [५३] ॥

गोभुवो [१९] भुजकृता [४२] रसेषवो [५६] नन्दका [९] द्वियमला [२२] महीकृताः [४१] ॥ १३ ॥ Text of Ms. A : [10] साधयेदक्षतलम्छना तिथिर्लम्छनं स्थितिदलोनसंयुतात् । तत्रिथावसकृदत्र पूर्ववत्स्पर्शमोक्षसमयौ परिस्फुटौ [11] स्पर्शमध्पमविमुक्तनेहसामन्तरस्थितिदले परिपरिस्फुटे पवमेव हि विमर्दखानाके प्रोक्त्तवच्च वलनादिकाः क्रियाः [12] ग्रहणाद्ग्रहणे सदोर्ध्वगं जिज्ञासुर्गुहफृर्वकम् क्षिग्पत् । प्रकृतग्रहमध्पभास्करे चंद्रशादि तदुच्चपातयोः [13] यंच मंकृतिरुडूनि षट्क्रनिषद् क्रमात्पंचदृग्दृशगुणास्त्रिसायकाः गोभुवो भुजकृता रसेषवो नन्टका द्वियमला महीकृताः Ms. B : 10 c तत्तिथा० 11 b °मन्तरे स्थितिदले