पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/286

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

5. पर्वज्ञानविधिः [ग्रहणसम्भवः क्षेपकपरिभाषा च] प्रान्तगे शशिनि मासपक्षयोः पातयुक्त इह भार्धचक्रयोः ॥

ग्रास उष्णशिशिरांशुमालिनोः क्षेपकोऽगतगतांशकास्तयोः ॥ १ ॥

[विक्षेपव्यासादिसाधनम्।]

क्षेपकः स्वतिथिभागवर्जितः सायका[५]भिनिहतः कलागतः ॥ चन्द्रसूर्यतमसां प्रविस्तराः पूर्ववत्स्थितिविमर्दखण्डके ॥ २ ॥

[मध्यग्रासमानम्]

मध्यमेन्दुश्रुतिसङ्गुणोऽथवा शीतगोः स्फुटश्रवोद्धृतः स्फुटः ॥ तद्विहीनमितियोगखण्डकं मध्यमग्रहणमानमीरितम् ॥ ३ ॥

[चन्द्रग्रहणविषये स्थितिमर्दार्धसाधनम्) स्फुटभुक्तिविशेषभागहृत् क्षेपो मध्यम एव वर्गितः ॥ प्रकृ[तिश्रु]ते[२१४]रपनीय1 यत्पदे ते चेन्दो: स्थितिमर्दखण्डके ॥ ४ ॥ Text of Ms. A : [1] प्रान्तगो शिशिनि मासयक्षयोः यातयुक्ता इह भार्धचत्क्रुयोः

ग्राम उष्णशिशिरांशुमालिनोः क्षेयको गतगतांशकास्तयोः ।

[2] क्षेयकः स्वतिथिभागपर्जितस्सायकाभिनिहितः कलागतः चंद्रसूर्यतमसां प्रवस्तिराः प्रर्ववस्थितिविमर्दखण्डके । 3) मध्पमेन्दुगतिसङ्गुणोथवा शीतगोः स्फुटसमोद्धृतः स्फुटः तद्विहीनमितियोगखण्डके मध्पमे ग्रहणमून। मीरितम् । [4] स्फुटभुक्तिविशेषभागहृक्षेपौ मध्पम एव वर्गितम् प्रकृतेरपनीय दृक्षयेदमिन्दो: स्थितिमर्दखण्डके 1. The reading really is प्रकृतेरपनीय, and प्रकृति is used to mean both 21 and 4. The letters तिश्रु have been inserted within square brackets to make the meaning obvious to the reader.