पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/285

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६० वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकारः V [इष्टवृत्ते परिलेखविधि:]

इष्टे वृत्ते वलनं त्वनुपातात्सारयेत्ततः केन्द्रात् ।
वलनदिशि स्वक्षेपौ यथादिशं क्षेपकान्तमध्यगतौ ॥ २८ ॥
द्वावपि मध्यग्रहणे स्पर्श मोक्षे च बाहुकर्णाग्रे । 

एवमभीष्टे काले परिलेखा एकवृत्ते स्युः ॥ २९ ॥ [ग्रहणकाले ग्राह्यबिम्बस्य वर्णनिरूपणम्] प्रग्रासमुक्तिसमये शशभृत् सधूम्रः खण्डग्रहे शितिवपुः स्वदलाधिकश्चेत् ॥

आताम्रकृष्णतनुरुत्कपिलः समस्तश्छन्नस्तथाऽन्यदुडुपश्च सकृष्णताम्रः ॥ ३० ॥

[ग्रहणयोरनादेश्यम्] स्वबिम्बसूर्याशक उष्णतेजसोर्न तेजतैक्ष्ण्यात् स्थगितोऽपि दृश्यते । हिमद्युतेः स्वच्छतनुत्वतः सुखं विलोक्यते खे मितिषोडशांशकः ॥ ३१ ॥ परिलेखविधिश्चतुर्थः । Text of Ms. A : [28] इष्टे वृत्ते वलनं त्वनयातात्साधपेत्ततः केंद्रात् । वलनदिशि स्वक्षेयो यथादिशं क्षेयकान्तमध्पगतौ

[29] द्वावपि मध्पग्रहणे स्पृशे मोक्षे च वाहुकर्णाग्रे

एवमभीष्टे काले परिलेखा पक वृत्ते: स्पुः [30] प्रग्रासमुक्तिसमये शशभृत्सधूम्रः खण्डग्रहे शितिवयुः स्वदलाधिकश्चेत् अंताम्रकृष्णतनुरुत्कपिलः समस्तछन्नस्तयान्नरुडुपश्च सकृष्णताम्रः । [31] खभिन्नसूर्यश उष्णतेजसोर्न तैक्ष्ण्पात्स्थगितोयि दृश्पते हिमद्युतेः स्वच्छतनुत्वतः सुखं विलोल्पते ले मितिषोडशांकः । परिलखविधिश्चतुर्थ: ।