पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/274

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2. अवनतिविधिः [साधनविधिः] त्रिभोनलग्ने दिनखण्डदृग्ज्ये रवीन्दुविक्षेपवियोगयुत्या । दृक्क्षेप आद्यादि नयेद् रवीन्द्वोः विधोस्तथा स्याच्च यथैव भानोः ॥ १ ॥ [इन्दुक्क्षेपसाधनम्]

दृक्क्षेपचापं त्रिगृहोनलग्नक्षेपोनयुक्तं विषमान्यदिक्स्थम् । तज्ज्येन्दुदृक्क्षेप इनस्य चास्य इन्दोरितान्या निजसाधनैर्वा ॥ २ ॥

[नतिसाधनम्।]

निजमन्दकलाश्रवणाभिहतस्त्रिगुणेन हृतः स्फुटतां स इयात् । कुदलाभिहतौ निजयोजनगश्रुतिसम्भजितौ नतिके तु फले ॥ ३ ॥

अथवा स्फुटभुक्तिताडितौ दृक्क्षेपौ त्रिगुणेन भाजितौ । । तिथि[१५]भिश्च फले नती स्फुटे स्वे कक्ष्याप्रतिमण्डले तयोः । ४ ।। Text of Ms. A :

[1] त्रिभोनलग्नदिनस्वण्डदृग्ज्पे रवेन्दुविक्षेयविलोमवृत्पा ।
सः विक्षेयाआर्क्यादिहर्दैद वीछ्रो विधार्यथाव भानोः

[2] दृक्षेपलापत्रिग्रहोनलग्नक्षेयोनयुक्तं नु सामात्पदिक्स्र्थं उज्पेन्दुदृक्षये इनैस्प चास्प इन्दोरिताक्रया निजसाधनैर्वा [3] निजमव्दकलाश्रवणाभिहतास्त्रिगुणेन हृतः स्फुटतां समियात् कुदलाभिहिता निजयोजनगश्रुतिसम्छजितौ नतिके तु फले

[4] अथवा स्फुटभुक्तिताडितौ दृक्षेयौ त्रिगुणेन भाजितौ 

तिथिभिश्च फले नती स्फुटे खे कक्ष्याप्रतिमण्डे तयोः Ms. B: 1 c हृदैर्दवीछ्रो 2b तु 4 d स्वे