पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/270

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 1 ] लम्बनविधिः 245 परमाप[म]जीवया हता त्रिभमौर्व्या विहृता च दृग्गतिः । स्वसुरां[३३]शसमन्वितं फलं जगुरुच्चैः स्फुटलम्बनासवः ॥ १८ ॥ वृक्क्षेपदृक्कर्मनराः कृत[४]घ्नास्त्रिज्योद्धृताः स्युर्घटिकादिकं यत् ॥ कृत्योर्विशेषात्पदमाप्यते यद् वदन्ति सन्तः स्फुटलम्बनं तत् ॥ १९ ॥ आद्यन्तयोर्वर्गविशेषयुक्तान्मध्यान्तयोर्वर्गविशेषराशेः।

मूलं भवेद्दृग्गतिसंज्ञकं वा दृक्क्षेपदृङ्मध्यगुणत्रयेषु ॥ २० ॥

[लघुलम्बनसंज्ञकं मध्याह्नलम्बनम्] लघुदृग्गतितोऽपि लम्बनं साध्यं पूर्ववदल्प[के] क्षयः ॥

द्युदले त्रिभहीनलग्नतो मध्याह्ने स्वमथाधिके ततः ॥ २१ ॥

[पुनः लम्बनसाधनविधयः] जलधि[४]संगुणिताः क्षितिलिप्तिकास्त्रिभगुणेन हृताः फलनाडिकाः ॥ लघुदिवादललम्बन[व]र्जिता महदुशन्त्यथवा स्फुटलम्बनम् ॥ २२। Text of Ms. A : [18] प्रथवायजीवपा हता चिभमौर्व्पा विहिता च दृग्गतिः स्वसुरांशसमन्वितं फलं जगुरुश्चैः स्फुटलंछनासवः

[19] दृक्षेयदृक्कर्मनराः कृतघ्नास्तिज्पोदिताः स्फुर्घटिकादिलंवनम्

कृत्पौविशेयान्पदमाघयौर्यद्वदन्तिसन्तः स्फटलम्वनं तत् ।

[20] आद्यन्तयोर्वर्गविशेषयुक्तात्मध्पान्तयोर्वर्मविशेषराशेः

मूलं भवेल्लंछनसंज्ञकं वा दृक्षेयदृङ्मध्पागुणोक्यपवम् ।

[21] लघुदृग्गत्तितोयि लम्छनं साध्पं मूर्ववदल्पक्षपः

द्युदले त्रिभहीनलग्नतो मध्पाह्ने स्वमथाधिकोनके ।

[22] जलधिसंगुणिताः क्षितिलिप्तकास्त्रिभगुणेन कृताः फलनादृिकाः लघुदिनावनलंवनजिता महदुशन्त्पथवा स्फुटलंवनम् ।

Ms, B: 18 b विभमौर्व्या 22 c ०बनलंबन०