पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/268

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1 ] लम्बनविधिः २४३ [दृग्गतिसाधनम्।]

दृक्क्षेपदृग्ज्याविवरैक्यराश्योर्घातात्पदं [दृग्गतिसंज्ञकं स्यात्] ॥ ९ ॥

[मध्याह्रदृग्गतिसाधनम्]

वृक्क्षेपमध्यगुणयोगविशेषघातान्मूलं द्युखण्डदलदृग्गतिसंज्ञकं स्यात् ।
तच्छङ्कुवर्गविवरात्पदमीरितं वा शङ्क्वन्तरैक्यवधमूलमुशन्ति चैतत् ॥ १० ॥

[प्रकारान्तरेण महल्लघुदृग्गती तयोर्योगान्तरे च] दृग्ज्यामध्यज्यासमासोऽन्तरिघ्नो युक्तः स्वल्पादृग्गतिज्याजकृत्या । तस्मान्मूलं दृग्गतिर्भूयसी तल्लघ्व्या योगो भूस्तदाप्तोऽन्तरं स्यात् ॥ ११ ॥ अन्तरेण सहितोनिता मही द्वयुद्धृता च महती लघीयसी। मध्यदृग्गुणकृती हृते मही वाऽन्तरेण फलयोर्यदन्तरम् ॥ १२। [प्रकारान्तरेण लघुदृग्गतिः।] मध्योदयज्याभिहति निहन्याद् दृक्क्षेपवृत्तोद्भवशङ्कुमौर्व्या ॥ व्यासार्धवर्गेण विभाजयेद्वा यत्तत्फलं सा लघुदृग्गतिज्या ॥ १३ ॥ Text of Ms. A :

[9] दृञ्क्षेमदृग्ज्पाविवरैक्यराशिपोः घातात्पदं तयोर्वा 

[10] दृक्षेपमध्पगुणयोगविशेषघातान्मूलं द्युराण्डदलदृग्जतिसंज्ञिकं स्पात् । तच्छंकुंवर्गविवरात्पदमीरितं वा शंक्वंतरंक्यवधमूलमुशंति चैतत् । [11] दृग्ज्पामध्पज्पासमासोन्तरघ्ना वुक्तः खल्पदृगतिज्पाजकृत्पा तस्मात्मूलं दृग्गतिलूपसी तल्लघ्वा यांगो भूस्तदाय्तोन्तरं स्पात् [12] अन्तरण सहितानिता मही द्युद्धृता व तहाती लघीयसी मध्पदृग्गुणाकृती कृत महे वान्तरेण फलयोर्यदन्तरंम् ।

[13] मध्पोदयज्पाभिहितं निहत्पाद्दुत्क्षेपवृतोद्धवाशंक्तुमोर्व्पा व्पासार्धवर्गेण विभाजयेद्वा यत्तत्फलं सा लघुदृग्गतिज्पा।

Ms. B: 9c दृञ्क्षमदृग्ज्या° 11 d ल्लध्वी °13 a निहन्या b °शंकु°