पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/267

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकारः V [पञ्चज्यासाधनम्]

तद्द्युगतेन' नरः स्वचरासुभिः स्वाक्षगुणेन निजद्युदलज्यया ॥ ४ ॥ तत्त्रिज्ययोर्वर्गविशेषमूलं दृक्क्षेप एवं सवितुर्नृदृग्ज्ये ॥ मध्याहृलग्नागतमध्यजीवा लग्नोदयाग्रा रविवद्विधेया ॥ ५ ॥

[मध्यलग्नसाधनम्]

भवन्ति लङ्काभ्युदयासवोऽत्र ये दिनार्धतिथ्यन्तरजा द्युखण्डयोः ॥ क्षयस्वमर्कें प्रथमद्वितीययोर्गृहाणि तावन्ति हि मध्यलग्नके। ६।

सहित रात्रिदलेन विपर्वणा विभदलेननिरक्षजभोदर्यैः । वियुतमाध्यदिनावधि उत्क्रमात् द्युदललग्नमुशन्त्यथवा बुधाः ॥ ७ ॥ [मध्यज्यासाधनम्।]

तदपक्रमस्वाक्षयोर्युतिर्जूकादेर्वियुतिः क्रियादितः ॥ 

विवरस्य गुणो भुजः स्मृतो मध्यज्या च तदग्रका नरः ॥ ८ ॥ ext of Ms. A : तद्दुवितं न नरः स्वचारासुभिः स्वत्तगुणेन निजद्युचरेज्पया

[5] तत्त्रिज्पयोवर्गविशेषमूलं हक्षेय पवं सवितुर्नुदृग्ज्पा

मध्पाह्रलग्नानतमध्पजीवो लग्नोदपाग्रा रविवद्विधेघा

[6] भवन्ति लग्नाभ्पुदयासवौत्र ये दिनार्धतिथ्पतुरजा द्युखण्डयोः

क्षयस्वमर्के प्रथमद्विताययोगृहाणि तावन्ति हि मध्यलग्न

मयराह्नं वात्कृतं वा निरक्षभवनोदयैर्भवेत्
[7] सदिनरात्रिदलेन वियर्वण्प विभदलेन निरक्षभवनोदये

विहितमाद्यदिनावदुक्रमा घुदललग्रमुशन्त्पथवा बुधाः। [8] तदयक्रमेणाक्षयोयुतिर्जूकार्दविसुतिः क्रियादितः विकस्प गुणो भुजाः स्भृतो मंधूज्पा व उदग्रका नरः Ms. B: 4 c तदुवितं 6 b घुस्वण्डयो 6 c द्वितींययो 7 c क्रभाद् 1. The original reading seems to be तद्द्युइतेन (= तद्+ द्यु+ इतेन)