पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/251

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

226. वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकारः tII नवा[९]भाड्गुलानि द्युखण्डे खरांशो: पलांशा नखा [२०] यत्र तत्रास्ति मित्र ! घनध्वान्तविध्वंसकल्पः स्फुरतिग्मतेजोनिधिः तत्र कीदृग् दलेऽह्नः ॥ १६ ॥ तुलार्धमागते रवौ दशा[१०]ड्गुला दिनार्धभा ।

कियत् सुतूर्णमत्र मे पलप्रमाणमुच्यताम् ॥ १७ ॥

रसवर्ग[३६]|मिता विषयेऽक्षलवा मिथुनान्तगते नलिनीसुहृदि । दिवसस्य घटीद्वितये च गते वद तूर्णमशी[त]गुभाप्रमितिम् ।॥ १८ ॥ तुलात्र्यंशप्राप्तोऽहिमकिरणमालाञ्चिततनुः

हुताशाशासंस्थो विषय उदयं यत्र कुरुते ।
कियानक्षस्तस्मिन् यदि गणितगोलौ गुरुगृहे
त्वयाऽधीतौ सम्यक् प्रथय मम तूर्णं वदत भो ॥ १९ ॥

षट्कृतिः [३६] पललवा जिनांशका [२४°] यत्र भास्वदुदयाग्रकोत्तरा । तत्र भुक्त्तमहिमांशुमालिना बूहि धिष्ण्यवलयस्य किं दिने ॥ २० ॥ Text of Ms. A : 16] नवालांगुलानि द्युतखण्डे खरांशोः यलाभा नखा यत्र तत्रास्ति मित्त्र

द्यनध्वांतविध्वंसकल्पः स्फुरत्तिग्मतेजोनिधिः तत्र कीदृग्दलौह्नः [17] तुलाछमागते रवौ दशांगुला दिनाछमा 

कियत्सुतूर्णमत्र मे यलप्रमाणमुच्पताम् ।

[18] रसवमंमिता विषयेच्चलबा मिथुनान्तगते नलिनीसुहृदि दिवसस्प घटीद्वितये च गते वद तूर्णमशीगुभाप्रमितिम्
[19] तुलात्रपंशं प्राप्तोहिमकिरणमालार्चिततनु

हुताशशासंस्थो विषय तदयं यत्र कुरुते किपलक्षस्तस्मिन्पदि गणितगोलौ गुरुगृहे

त्वयाधीतौ सम्पत्कथय मम तूर्ण वदत भा
[20] षट्कतिः याललवा जिनांशका पत्र भास्वदुदपाग्रकोत्ररा

तत्र भुक्तमहिमांशामालिना बूहि घिष्ण्यवलयस्प कि दिने ।

Ms. B : 18 a विषयेन्चलवा 19 a *मालार्चितनु 20 b °कोत्तरा