पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/250

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 15] स्फुटः प्रश्नाध्याय: 225 इनशङ्कुमध्यलम्बकजीवाकज्ञो यः करोति रविलग्नम् । अस्मत्कृततन्त्रविधे[रन्यतो] गणकाग्रणीः स इह ॥ १० ॥ राशिकालविरहेण वेत्ति यो लग्नतिग्मकरमध्यनाडिकाः । उन्नतं नतमहर्दले कुजान्नुद्युतेर्दिनपतिं [स] तन्त्रवित्। ११ ॥ बाहुकोटिदिवसार्धभाङ्गुलैरिष्टभालिखितमण्डले पुमान् । शङ्कुभाभ्रममवैत्यहर्घटीस्तत्प्रभाञ्च गणकोऽस्तधीमलः ॥ १२ ॥ । मन्दिरस्य पटलं विदार्य यस्तद्गतं दिनकरं प्रदर्शयेत् । तैलदर्पणजलादिगं तथा वंशकाग्रनिहितं स तन्त्रवित्। १३ ॥ मिथुनभान्तमुपागततिग्मगौ शरकृति[२५]र्घटिकाः क्षणदा [यदा] । पलमिति गद तत्र सुमित्र भो यदि वटेश्वरतन्त्रकृतश्रमः ॥ १४ ॥ " घटिकाद्वितयं क्रियोदयो याते प्रान्तमहर्पतौ नराः ॥ जितुमस्य वदन्ति वासरं यत् तद् ब्रूहि पलांशकानपि ॥ १५ ॥ Text of Ms. A :

[10] इनशंकुमध्पलम्छकजीवाज्ञो यः करोति रविलग्नम् ।

अस्पकृततत्त्रविघेद्गणकाग्रणीस्म इह । [11] राशिलग्नविरहेण वेत्ति यो लग्नतिग्मकरमध्पनाडिकाः । उन्नतं नतमहर्दले कुजानुद्युतेर्दिनयतिं तन्त्रवित्।

[12] राहुकोटिदिवसावभांगुलै: इष्टभालिखितमण्डले युमान् । शंकुभाम्रममेवैत्पहृद्योटीस्तत्प्रभाञ्च गणकोस्तधीमलः ।
[13] मंदिरस्प यटलं विवार्य यस्तद्गतं दिनकरं प्रदर्शयेत् ।

तैलदर्पणजलादिगां तथा वंशकाग्रनिहितं सा तन्त्रवित्। [14] मिथुनभान्नमुपागततिग्मरुवौ शरकृतिः घटिकाः ।। क्षणदा य । यलमिति गद तंत्र सुयित्र यो यदि विवित्रसुतंत्रकृतश्रमः ।

[15] घटिकाद्वितयं क्रियादयौ याते प्रांतमहर्यतौ शराः
जितमस्प वदन्ति वासरं यत्तद्ब्रहियलांशकानयि