पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/246

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 14] छायापरिलेखविधि: २२१ तैलेऽथ दर्पणे वा जलेऽथवा शङ्कुमार्गविन्यस्ते ॥ शङ्क्वप्रस्थितदृष्टिर्दिनमपि पश्येद् भ्रमन्तमिनम् ॥ १७ ॥ केन्द्रगवंशाग्रदृशा विलोकयेच्छङ्कुमार्गगं द्युचरम् ।

शङ्कुच्छिद्रपथा वा पश्यति तद्विद्धमिव सूर्यम् ॥ १८ ॥

[ग्रहभाना दर्शनम्]

ग्रहभानामप्येवं निजस्फुटेनापमेन संसाध्यम् ।
दर्शनामपि तैलादौ व्याधागास्त्यषिसंघस्य ॥ १९ ॥

[पलभा-पलकर्ण-संस्थितिः] दद्याद् भुजवदिनाग्रां तदग्रयोस्तूदयास्तमयसूत्रम् ॥ तच्छायावृत्तान्तरमक्षच्छायाङ्गुलानि स्युः ॥ २० ॥ तच्छङ्कुमस्तकान्तरमक्षश्रवणो [छायावृत्तपरिलेखः] ऽथवा न्यसेत्केन्द्रम् ।

यत्स्यात्तदिष्टकेन्द्रं तस्माद्वृत्तं लिखेद् विमलम् ॥ २१ ॥

Text of Ms. A : [17] तैलेथ दर्यणे ज जलेथवा शंकुमार्गविन्पस्ते शंक्वग्रस्तितदृष्टिदिनमपि यश्पे भ्रममन्तमिनम् [18] केंद्रगवम्सागदृशा विलोकयेछकुमार्गगं ह्यपरमा शंकुच्छितृं । प्रर्वार्यश्पति तद्विद्धमिव सूर्यम् ।

[19] ग्रहभानामय्पेचं निजस्फुटेनायमेन संसाध्पम्

दर्शनमपि शैलादौ व्पघाणख्पर्षिसंद्यस्प [20] दद्याभूजवदिताग्रात्तदग्रयौस्तुदयास्तनयसूत्रम् । तछायावृत्तान्तरयक्षछायांगुलानि स्पुः ॥ [21] तछंकुमस्तकांतरमक्षद्रवणोक्षभान्पसत्केंद्रम् यस्पांत्तदक्षेकेंद्रं तस्माद्वृत्तं लिखेद्विफलम्। Ms. B: 20 c वृत्तान्तर