पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/198

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 8] लग्नादिविधिः १७३ त्रिज्या[बाlहुज्यान्तरयुतिघातेभ्यो द्युज्याप्तरहितेभ्यः । [त्रिज्याद्विगतहतेभ्यो द्युज्याभक्ताप्तलब्धानाम् ।]

मूलेभ्यो धनुषां वा विवराणि निरक्षराश्युदयाः ॥ ५ ॥

मेषादिक्रान्तिज्याज्यायोगहतात्तदन्तरान्मूलम् । त्रिज्यागुणं द्युजीवावाप्तचापान्तराण्यथवा । ६ । वाऽजादिक्रान्तिज्याज्यायोगहतात्तदन्तरान्निघ्रात् ॥

त्रिज्याकृत्या द्युज्याकृत्याप्तपदधनुरन्तराण्यथवा । ७ ।।

[राशीना स्वदेशोदयासुसाधनम्] ते चाङ्काङ्गाङ्गभुवो[१६६९]ऽङ्गगोऽगशशिनः[१७९६] शराग्निगोच्चन्द्राः[१९३५ ॥ व्यस्तास्तथा चरदलोनयुता निजधाम्नि षट्सु चोत्क्रमतः ॥ ८ ॥ [राशीनामस्तमयकाल-याम्योत्तरसङ क्रमकालसाधनम्] निजसप्तमोदयासुभिरस्तं राशिः समेति नियमेन ॥

लङ्कोदयासुभिः स्वैर्याम्योत्तरवृत्तमायाति ॥ ९ ॥

Text of Ms. A : [5] त्रिज्पाहुज्यांतरपदपातेभ्पो द्युज्पयाप्तसहितेभ्पो मूलेभ्पो धनुर्पावा विवराणि निरक्षराश्पुदयाः

[6] मेषादिक्रांतिज्पागुणज्पायोगहतातुदतरान्मूल 

त्रिज्पागुणं द्युजीवाप्राप्तेचापान्तराण्पथवा ।

[7] वाजादिक्रांतिज्पाज्पायोगहतात्तदंतरान्निघ्ना

त्रिज्पाकृत्पा द्युज्पाकृत्पाप्तपदधनुरंत्तराण्पथवा ।

[8] ते चांकांगांगभुवोंगगोगशशिनः शराग्निगोवंद्राः

व्पस्तास्तथा चरदलोनयुतानिजधास्ति षट्गष्वोत्क्रमतः

[9] निजसप्तमोदयासुभिरस्वं राशिस्समेति नियमेन लंकोदयासुभिस्खर्याम्पोत्तरवृत्तमायाति

Ms. B : 5c धनुर्षावा 7 d °रंन्तरा° 8 b शराग्निगोचंद्राः 8 d °धाम्नि