पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/182

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

4. द्युज्यानयनविधिः क्रान्तिज्यावर्गोनात् त्रिज्यावर्गात्पदं द्युजीवा स्यात् । त्रिज्याक्रान्तिज्यान्तरसमासघातस्य मूलं वा ॥ १ ॥ व्यस्तक्रान्तिज्याहृत्क्रान्तिगुणकृतेः फलं त्रिभज्योनम् ॥

द्युज्या वा व्यस्तापमजीवात्रिज्यान्तरं वा स्यात् ॥ २ ॥

क्रान्तित्रिभान्तरज्या द्युज्या वा चरदलजीवया हृता ।

त्रिज्या क्षितिजीवाघ्ना स्वाहोरात्रार्धजीवा वा ॥ ३ ॥

धृतिगुणिता त्रिभजीवा ह्रताऽन्त्यया वा द्युमौर्विंका भवति । शङ्कुत्रिज्याक्षश्रुतिवधादिन[१२]गुणान्त्ययाऽऽप्तं वा ॥ ४ ॥ त्रिज्यानृतलाक्षश्रुतिघातात् पलभाहतान्त्ययाऽऽप्तं वा ॥ अक्षज्याग्राघाते चरगुणभक्तोऽथवा द्युज्या ॥ ५ ॥ Text of Ms. A : [1] क्रांतिज्पावर्गांनात्त्रिज्पावर्गात्पदं द्युजीवा स्पात् त्रिज्पाक्रांतिज्पांतरसमासघातस्प मूलं वा [2] व्पस्तक्रांतिज्पाहृत्क्रांतिगुणहृतिः फलं त्रिभज्पोनं । द्युज्पा वा व्पस्तापमजीवात्रिज्पांत्तरं वा स्पात् [3] क्रांतितिभांतरज्पा द्युज्प वा चरदरजीवया विहृता त्रिज्पा क्षतिजीवाम्राहोरार्धजीवा चा । [4] धृतिगुणिता त्रिभजीवा हृतांत्पया वा द्युमौर्विंका भवति शंकुत्रिज्पाक्षश्रुतिवध्पाद्दिनगुणात्पयाप्तं वा 5 त्रिज्पानृतलाख्पक्षुतिघातात्पलभाहतांत्पयाप्तं व। अक्षज्पाग्राघाते चरगुणभक्तेथवा भुज्पा Ms. B : 3 d °जीवां वा ।