पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/181

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

156 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकारः III कुज्याहता धृतिर्वा छेदविभक्ताऽपमस्य जीवा स्यात् । पलभाग्रावधगुणितो नरोऽर्क[१२]गुणहारहृद्द्वा स्यात् ॥ ११ ॥ द्युज्यात्रिज्याकृत्योर्विशेषमूलं त्वपक्रमञ्ज्या वा ॥ त्रिज्याद्युज्यायोगात् निजान्तरघ्नात्पदं वा स्यात् ॥ १२ ॥ द्युज्यार्क[१२]घातगुणिता चरार्धजीवाऽक्षभात्रिशिब्जिन्योः ।

घातेन हृता लब्धं स्वेष्टापक्रान्तिजीवा वा ॥ १३ ॥

क्रन्तिज्यानयनविधिस्तृतीयः ॥ Text of Ms. A : [11] कुज्पाहता वृत्तिर्वाश्छेदविभक्ता अपमस्प जीवा पलभाग्रावधागुणितो नरोर्कगुणहारहृद्वा स्पात्

[12] द्युज्पात्रिज्पाकृत्पोर्विशेषमूलं त्वयक्रमज्पा वा

त्रिज्याद्युज्पायोगात्रिजांतरघ्नात्पदं वा स्पात् ।

[13] त्रिज्पार्कघातगुणिता वरार्धजीवाक्षसाधुशिंजित्पो

र्घातेन हृता लव्दं स्वेष्टापक्रांतिजीवा वा । क्रातिज्पानयतविधिस्तृतीयः ॥ Ms. B: 11 c °ग्रावधगुणितो 12 a द्युज्या० 12 d •निजांतर° 13 b चरार्धजीवाक्षमाधुशिंजित्पो । 1. The first half of this verse occurs in the original text as त्रिज्यार्कंघातगुणिता चरार्धजीवाऽक्षभाद्युशिञ्जिन्योः which is mathematically incorrect. The error has been rectified by interchanging त्रिज्या and द्युशिञ्जिनि in the edited text.