पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/180

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 3] क्रन्तिजयानयनविधि: 155 अग्राक्षश्रुतिनिजधृतिविष्कम्भदलैर्हृतः समनरो वा । कुज्याक्षाभास्वेष्टनृ[तल]पलगुणनिघ्नोऽपमज्याः स्युः ॥ ६ ॥ अक्षावलम्बजीवाघ्ना त्रिकृतिहृता तु तद्धृतिस्सा स्यात् ॥ नृतलघ्नशङ्कुगुणिता तद्धृतिरथवा स्वधृति[कृति]विभक्ता ॥ ७ ॥ द्वादशपलभागुणिते पललम्बज्ये समश्रवणभक्ते । क्रान्तिज्ये वा कुज्याग्राकृतिविश्लेषमूलं वा ॥ ८ ॥ पलकर्णहतो दिनदलनरोऽर्कहृत् फलकुगुणयुतिविशेषः ॥ याम्योत्तरयोस्तत्त्रिगुणकृतिवियुतिमूलमपमज्या ॥ ९ ॥ पलभाधूतिघातोऽर्क[१२Jविहृतश्छेदोऽग्राहतस्य नृतलस्य ।

प्राप्ता क्रान्तिज्याऽग्राकृतेः समच्छेदाल्लब्धं वा ॥ १० ॥

Text of Ms. A : [6] अक्षाग्रश्रुतिनिजधृतिविष्कंभदलैर्हृतस्समनरो वा कुज्पाक्षाभास्वेष्टनृपलगुणनिघ्नोपमृज्पाः स्पुः । . [7] अक्षावलंवघ्नजीवाघात्तेन हता तु तद्वृत्तिस्सा स्पात् । नृतलघ्नशंकुगुणिता तद्वृत्तिरथवा स्वधृतिभक्ता । [8] द्वादशपलभागुणिते पललंवज्पे समश्रवणभत्के। क्रांतिज्पो वा कुज्पाग्राकृत्तिविश्लेषमूलं वा [9] पलकर्णहृतो दिनदलभरोर्कहृत्फलकुगुणपुतिविशेषः पाम्पोत्तरयोस्तत्त्रिगुणकुतियुतिभूलमयमज्पा

(10) थलभावृतिवात्तोर्कविहृत्श्छदोग्राहतस्प नृतलस्पा

वाप्तक्रांतिज्पाग्राकृतेस्समश्छेदलव्दं वा Ms. B : 6d °पमज्याः 9 c याम्यो° 10 b नृतलस्य ।