पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/179

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3. क्रान्तिज्यानयनविधिः क्रान्तिः परा जिनांशाः [ २४°] पराऽपमज्या जिनांशक[ २४°]ज्योक्त्ता ॥ तद्गुणिताऽर्कभुजज्या त्रिगुणहृदिष्टापमज्या स्यात् ॥ १ ॥ अष्टकृतिद्वगुणिता[२०८ × २] रविभुजजीवा त्रिबाहुखकु[१०२३]भक्त्ता । स्वेष्टापक्रमजीवा तच्चापं क्रान्तिरिष्टा स्यात्। २ ।। अथवा क्रमजीवाभिः प्रागुक्ताभिर्गुणोऽपमज्या स्यात् ॥ क्रान्तिकलाभिमौवीं क्रान्तिकलाः पूर्ववत्साध्याः ॥ ३ ॥ लम्बज्येष्टनृसमनरसूर्यै[१२]र्गुणिता क्रमादिलामौर्वी । अक्षज्यानृतलाग्राक्षाभाहृद्वाऽपमज्याः स्युः ॥ ४ ॥ द्वादशलम्बज्येष्टनृसमनरनिहता क्रमेण वाऽग्रज्या। अक्षश्रुतित्रिभज्यानिजधृतितद्धृतिहृदपमज्याः ॥ ५ ॥ Text of Ms. A :

[1] क्रांतिः परा जिनांशाः परा क्रमज्ष्प जिनांशकज्पोक्ता ।

। तद्गुणितार्कभुजज्पा त्रिगुणहृदिष्टावमज्पा स्पात् [2] अष्टकृतिर्वांगुणिता रविभुजजीव्पा त्रिवाहुखकुभक्ता । स्वेष्टोपक्वमजीवा तच्चापष्क्रांतिरिष्टा स्पात् ।

[3] अथवा क्रमजीवाभिः प्रागुप्ताभिर्गुणोपमज्पा स्पात् ।

क्रांतिकलाभिमौवीं क्रान्तिकलाः पूर्ववसाध्पाः ।

[4] लंवज्पेष्टं नृसमनरसूर्यैर्गुणिता क्रमादिलामौर्वी

अक्षज्पा नृत्तलाग्राक्षाभाहद्वापमज्पास्स्पु ।

[5] द्वादशलंवज्पेष्टनृसमनरनिहता क्रमेण वाग्रज्पा ।

अक्षश्रुतित्रिभज्पानिजवृतितद्वृतिहृदपमज्पाः ।