पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/176

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 2] लम्बाक्षज्यानयनविधिः ዓሄፃ जिनभागगुणरविभुजगुणघातः समनरहृतोऽथवाऽक्षज्या । कान्तित्रिभगुणघातः समनरहृतोऽथवाऽक्षज्या ॥ १२ ॥ कुज्याग्रयोरप[क]मगुणाग्रयोरन्तरे त्रिभज्यान्ने । अग्राहृते क्रमात्ते व्यस्तावलम्बज्याक्षज्ये ॥ १३ ॥

श्रुत्यर्कयोः श्रुतिभयोर्विवरे त्रिगुणाहते श्रुतिविभक्ते ॥ 

उत्क्रमपललम्बज्ये क्रमाल्लम्बपलत्रिभगुणविवरे वा ॥ १४ ॥ अग्रातद्धुत्यन्तर-तद्धृतिसमनृविवरे त्रिभगुणघ्ने।

तदधृत्या प्रविभक्ते चोत्क्रमलम्बपलज्यके स्तः ॥ १५ ॥

नृतलस्वधूतिविशेष-स्वधूतिनृविवरे त्रिमौर्विकाभ्यस्ते ।

स्वधृतिविभक्ते वोत्क्रमलम्बकपलमौर्विके भवतः ॥ १६ ॥

उत्क्रमपललम्बज्याहृतौ पलगुणावलम्बगुणवर्गौ ।

लब्धे त्रिज्यारहिते लम्बाक्षज्ये [क्रमाद् भवतः ॥ १७ ॥

Text of Ms. A : [12] जिनभागगुणरविभुजगुणघातस्समनरहृतोथवाक्षज्पा क्रांतित्रिभगुणघातस्समनरहृतोथवाक्षज्पा।

[13] कुज्पाग्रयोरवमगुणाग्रयोरंतरे त्रिभज्पाघ्ने 

अग्राहते क्रमाघ्ने व्यस्ताक्षज्पावलंवज्पे । [14] श्रुत्पंकयोः श्रुतिभयोर्विवरे त्रिगुणांहते श्रुतिविभक्ते । । तत्क्रमलवाक्षज्पे क्रमषललवत्रिभगुणविवृरे वा।

[15] अग्रातद्धृत्पंतरतद्धृतसमवृवरे त्रिभगुणाघ्नो ।

तुद्धृत्पा प्रविभत्कचोत्क्रमपललंविज्पे स्तः ।

[l6] नृपलस्वधूतिविशेषनृविर्वरे त्रिमौर्विकाभ्पस्ते

स्वध्रुतिविभत्के वोत्क्रमपललंवकमौर्विके भवतः ।

{17] उत्क्रमपललंवज्पाहृतौ पलगुणावलंवगुणवर्गो

लंवद्धिज्पारहिते लम्वाक्षज्पे Ms. B: 15 c उद्धृत्या 15 d °पललंबकज्ये