पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/177

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

152 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III उत्क्रमपललम्बज्ये] व्यासघ्ने स्वकृतिर्वजिते च पदे ।

पललम्बज्ये व्यासौ तदूनगुणौ ते पदे वा स्तः ॥ १८ ॥

उत्क्रमजीवान्तरकृतिहीनत्रिज्याकृतेर्दलं यत्तत् । पलगुणहृल्लम्बज्या लम्बज्याहृत्पलज्या वा ॥ १९ ॥ त्रिज्यावर्गाद् द्विगुणाद् व्यस्तगुणान्तरकृतिं विशोध्य पदम् । उत्तान्तरोनयुक्तं दलितं पललम्बकज्ये वा ॥ २० ॥ तद्वाऽक्षज्योनं लम्बज्याऽक्षज्याऽवलम्बगुणहीनम् ॥ त्रिज्योत्क्रमाक्षलम्बकगुणान्तरे लम्बकाक्षज्ये ॥ २१ ॥ चरदलजीवाद्युज्यावधोऽग्रया भाजितोऽथवाऽक्षज्या । समकर्णापमजीवाघातोऽर्कहृतोऽथवाऽक्षज्या ॥ २२ ॥ पलभाहुल्लम्बज्या नृतलाप्तात् नृभाक्षगुणघातात् ।

श्रुतिगुणिता क्रान्तिज्या भावृत्ताग्रोद्धृता वा स्यात् ॥ २३ ॥

Text of Ms. A : 18 व्यासघ्नस्वकृतिवर्जिते च पदे पदलंवज्पे व्पासौ तदूनगुणे तौ पदे वा स्तः

[19] उत्क्रमजीवांतरकृतिहीनत्रिज्पाकृतिर्दलं यत्तत् । पदगुणहृल्लंवज्पा लंचज्पाहृत्पलज्पा व ।
[20] त्रिज्पावर्गाद्वद्विगुणाद्व्यद्व्यस्वगुणांतरकृतिं विशोध्प पदं ॥

उक्त्तांतरोनयुक्त' दलित पदलंवकजपे वा ।

[21] तद्वाक्षज्पोनं दललवज्पाक्षज्पावलंवगुणहीनं । । त्रिज्पोत्क्रमाक्षलवकगुणांतरे लंवकाक्षज्पे t
[22] चरदलजीवाद्युज्पावधोग्रया भाजितोथवाक्षज्पा। समकर्णापमजीवाघातोकहृतोथवाक्षज्पा ।
[23] पलभाह्रल्लंवज्पानृतलाप्ते वा त्रिभाक्षगुणघातात् । श्रुतिगुणिता क्रांतिज्पा भावृत्पाग्रोद्धृता वा स्पात्

Ms. B: 19 a तुत्क्रम 20 a-b °गुणाद्व्यस्व°