पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/175

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

150 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे अधिकारः ।।। कुञ्ज्या भाकर्णघ्ना भावृत्ताग्रोद्धृताऽथवाऽक्षज्या । जिनभागज्याघ्रार्कज्याऽप्रज्याहृदवलम्बज्या । ६ । लम्बज्योनासमेतन्त्रिज्याघातात्पदं पलज्या वा ॥ अक्षज्ययोनयुक्तत्रिगुणवधान्मूलमितरा वा । ७ ।। कुज्याक्रान्तिज्ये वा त्रिज्याघ्ने अग्रया हते ते स्तः । अग्रासमशङ्कुज्ये त्रिगुणघ्ने तद्धूतिहृते वा ॥ ८ ॥ स्वधृति[हृते] वा त्रिज्ये नृतलनरघ्ने पलावलम्बज्ये। अक्षावलम्बकार्मुकहीनत्रिगेहाद् गुणौ वाऽन्ये। ९ । समशङ्कुक्रान्तिनरैरक्षज्यास्ताडिताः क्रमाद् विभजेत् ॥ अग्राकुञ्ज्यानृतलैरवाप्तयो वाऽवलम्बज्याः ॥ १० ॥ लम्बज्याः क्रमशो वा कुज्याग्रानृतलताडितास्तु हरेत् । क्रान्तिज्यासमशङ्कुस्वेष्टनरैरक्षमौर्व्यः स्युः ॥ ११ ॥ Text of Ms. A :

[6] कुञ्ज्पा भाकर्णघ्ना भावृत्ताग्रोद्धृताथवाक्षज्पा

त्रिज्पाजिनभागज्पाघ्नार्कज्पाग्रज्पयाहृदवलंवज्पा ।

{7] लंवज्पेनसमेतत्त्रिज्पाघातान्पदं पलज्पा वा

अक्षज्पयोनयुत्कत्रिगुणवधान्मूलमितरा वा ।

[8] कुज्पाक्रातित्पे वा त्रिज्पाघ्ने अययाहृते ते स्त:

अग्रासमशंकुज्पे त्रिगुणघ्नं तद्वृतिहृते वा । [9] स्वधृति वा त्रिज्या नृतलनरघ्ने पलावलंवज्पे' अक्षावलंवकार्मुकहीनत्रिदेहांद्गुणो वात्ये।

[10] समशंकुक्रांतिनरैरक्षज्पास्ताडिताः क्रमाद् विभजेत अग्राकुज्पानृतलैरवाप्तयो वावलंवज्पा।
[11] लंवज्पाः क्रमशो वा कुज्पाग्रानृतलताडितास्तु हरेत्

क्रांतिज्पासमश्रंकुस्वेष्टनरैक्षमौर्व्पास्स्पु । Ms. B.: 8 a °क्रांति° 8 dतद्धृतिहते 9 d वान्ये [अधिकारः III