पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/174

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2. लम्बाक्षज्यानयनविधिः [अक्षज्यालम्बज्यानयनविधयः]

पलभार्क[१२]वर्गगुणितौ त्रिज्यावर्गौ' पलश्रवणकृत्या । । भत्ताववाप्तमूले पलजीवालम्बजीवे स्तः ॥ १ ॥

अथवा भार्क[१२]कृतिघ्ने त्रिज्ये भार्क[१२]हतश्रवणभक्ते ॥ केवलया श्रुत्या [[वा] लब्धी छायार्कसङ्गुणिते ॥ २ ॥ त्रिज्याकृतिनिहतौ वा भाशङ्कू त्रिज्ययाहतश्रुत्या ।

भक्तौ वा भाश्रुत्या लब्धी त्रिज्याहते भवतः ॥ ३ ॥

त्रिज्ये छायार्क[१२]घ्ने कर्णहते व पलावलम्बज्ये । नृच्छायानिहते वा छायाशङ्कूद्धृते वाऽन्पे ॥ ४ ॥ लम्बज्याकृतिहीनातू त्रिज्यावर्गात्पदं पलज्या वा । पलजीवात्रिज्याकृति[वि]युतिपदं लम्बकज्या वा ॥ ५ ॥ Text of Ms. A : [1] पलभार्कवर्ग:गुणितौ त्रिज्पावर्गौ* पलश्रवणकृत्पा भक्तापवाप्तमूलिं पलजीवालंवजीवे स्तः ।

[2] अथवा भार्ककृतिघ्ने त्रिज्पे भार्कहत्तश्रवणभक्ते

केवलया श्रुत्पा लव्दीश्छायार्कसंभक्ते । ۔۔۔۔ [3 त्रिज्पाकृतितिहतो वा भाशंकुत्रिज्पपाहतः श्रुत्पा भक्तौ वा नाहतया लब्दी त्रिज्पोद्धृते भवतः ।

[4] त्रिन्नेश्छायार्कघ्ने कर्णहृते वा पलार्धलंवज्पे

भूश्छायानिहते वाश्छायाशंकूद्धृते वात्पे 5] लंवज्पोकृतिहीनात्त्रिज्पावर्गात्पदं पलज्पा वा ॥ पलजीवात्रिज्पाकृतियुतिपदं लवकज्पा वा । Ms. B : 2 d लब्दी° 3 d लब्दी