पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/154

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

6. तिथ्याद्यानयनविधिः [तिथिसाधनम्।] भानूनविधोर्भागा द्वादश[१२]भक्ताः फलं गतास्तिथयः ॥

षष्टि[६०]घ्ने गतगम्ये गतिविवरांशोद्धृते नाडयः ॥ १ ॥

[नक्षत्रसाधनम्] त्रि[३]गुणा ग्रहस्य भागा खाब्धि[४०]हता भानि येययाते च । नख[२०]निहते स्वगतिहृते दिनादि भोग्यभुक्तर्क्षभोगः स्यात् ॥ २॥ [अध्यर्धसमार्धभोगनक्षत्राणि]

स्थूलोऽयं स्पष्टोऽसावध्यर्धसमार्धभोगो यः ।
तं वच्म्यधुनाऽभिजितः स्फुटभोगोऽहं विशेषेण ॥ ३ ॥

ब्राह्मोत्तराविशाखादित्यान्यध्यर्धभोगसंज्ञानि । वारुणसार्पार्द्रानिलयाम्यैन्द्राण्यर्धभोगीनि ॥ ४ ॥ Text of Ms. A : {1] भानूनविधोर्भागा द्वादशभक्ताः फलं गतास्तिर्थषः - षष्टिघ्ने गतिगम्ये गतिविवरांशोद्धृते नाड्यः । [2] त्रिगुणा ग्रहस्प भागाः खादिह्रता भानि येययात च नखनिहते स्वगतिहृते दिनादि भोग्पर्क्षभोगस्स्पात्। [3] स्थूलोयं स्पष्टोसावध्पर्धसमार्धभोगा यः तं वच्म्पधुनाभिजितः स्फुटभोगोहं विशेषेण । {4] ब्राह्मोत्तराविशाखादित्पान्पध्पर्धभोगसंज्ञानि ॥ ॥ वारुणसायाद्रानिलयाम्पेन्द्रान्पर्धभोगीनि ।ll ।l Ms. B.: 4 c °सापाद्रा“