पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/153

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

128ー वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II [ सूर्यसिद्धान्तसम्मतविधिः] मध्यमश्चलदलार्धसंस्कृतो मं[द]जेन दलितेन सैव हि। मन्दजं सकलमेव [म]ध्यमे शीघ्रजं [च] निखिलं परिस्फुटः ॥ ३४ ॥ [मन्दकर्णानयनविधिः] इष्टच्छेदहते फले मृदुफलप्रोक्ते ह्रते त्रिगृहात् रूपेणैकविवर्धितेन समता छेदेन यावत्स्फुटः ॥ [अन्यो ग्रहस्फुटीकरणविधिः] आद्य मध्य[म]खेचरान्मृदुफलं शेषं तु शीघ्रस्फुटात्

मध्ये मन्दफलं तदूनितचलाच्छैघ्रं च मन्दस्फुटे ॥ ३५ ॥

[कोटि विना शीघ्रकर्णसाधनम्।)

परमफलकेन्द्रजीवाघातात् फलजीवया हृतात्कर्णः ।
कोटिं विनाऽथवा स्यात् त्रिज्या दोःफलसमभ्यासात् ॥ ३६ ॥

फलज्यास्फुटीकरणविधिः पञ्चमः ॥ Text of Ms. A : [34] मध्पमश्चलदलार्धसंस्कृतो मंजेन दलितेन सैव हि मंदजं सकलमेव ध्पमे शीघ्रजं निखिलं परिस्फुटः । ।

[35] इष्टश्छेदहृते फले मृदुफलं प्रोत्थेहते ते ग्रहे। रूपेणैकविवर्धितेन समताश्छेद्रेन यावत्स्फुटः 

आद्यं मध्पखेचरान्मृदुफलं शेषाणि शीघ्रस्फुटात्

मध्पं मंदफलं तदूनितचलाश्छेघ्रं च मंदस्फुटे।
[36] परमफलकेन्द्रजीवाघातात्फलजीवया हृतात्कर्ण:

कीटिं विनाथवा स्पात्त्रिज्या दो:फलसमभ्पासात् । फलज्पास्फुटीकरणविधिः पंचमः । Ms. B : 34 c °मेव मध्पमे 35 b °श्छेदेन 35 d °स्फुठे