पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/152

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 5] फलज्यास्फुटीकरणविधिः १२७. [वक्रदिवसाः] अस्तोदयकेन्द्रान्तरकलिकाः केन्द्रगतिभाजिता दिवसाः । वक़ानुवक्रकेन्द्रान्तरलिप्तास्वेवं वक्राहा: ।। ३० ॥ (दृश्याद्दृश्यदिवसाः)

युगकेन्द्रभगणभक्ता युगभूदिवसा निरंशदिवसास्स्युः ॥ अस्तदिनोना दृश्या दि[वसा मि]लिताश्च सितज्ञयोः ॥ ३१ ॥

[ग्रहस्फुटीकरणविधयः] [ब्रह्मगुप्तसम्मतविधिः] मध्येऽखिलं मंदफलं तदूनाच्चलाच्चलाख्यं च पुनश्च तस्मात् ॥ मन्दोद्भवं मध्यखगे चलोत्थं तदूनशीघ्रादसकृत्स्फुटेऽस्मिन् ॥ ३२ ॥ [बुधशुक्रसाधनाय आर्यभटसम्मतविधिः] व्यस्तं चलोत्थस्य दलं स्वमन्दे तदूनमध्यान्मृदुजं समस्तम् ॥ मध्ये तदूनात्स्वचलाच्चलोत्थं तस्मिन् समस्तं भवति, स्फुटे स्तः ॥ ३३ ॥ Text of Ms. A : [30] अस्तोदकेयन्द्रांतः कलिकाः केन्द्रगतिभाजिता दिवसाः वक्रानुवक्रकेन्द्रांतरलिप्तास्वैव वक्राहाः ॥ [31] युगकेन्द्रभाणभत्का युगभूदिवसा निरंशदिवसास्स्पुः अस्तादिनोनदृश्पा दिलिताश्च सितज्ञयोः ॥ [32] मध्पखिलं मंदफलं तद्नांश्चलाच्चलाख्पं च पुनस्तस्मात् मंदोद्धवं मध्यखगें चलोत्थं तदूनशीघ्रादसकृत्स्पुटेस्मिन्। [33] व्पस्तं चलोत्थस्प चलं स्वमंदं । तदूनमध्पान्मृदुजं समास्तं । मध्पे तदूनात्स्वचलाच्चलोत्थं तस्मिन्समस्तं भवति स्फुटे स्तः ॥ Ms. B : 31 a °द्रभगणभत्का 31 c दृश्या दिलिताश्च