पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/151

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II [भुजकोटिज्ययोर्योगे ज्ञाते तदानयनम्] भुजकोटियुतित्रिज्यावर्गान्तरभेद-[योग]दलकृत्योः ।

अन्तरमूलं युक्तं योगार्धेनैकजीवा सा ॥ २५ ।

[भुजकोटिज्ययौरन्तरे ज्ञाते तदानयम्]

व्यासार्धकृतिर्द्विघ्ना ज्यान्तरवर्गोनिता ततो मूलम् ॥
विवरयुतोनं दलितं भुजकोटिज्ये श्रुतिश्च ततः ॥ २६ ॥

[भुजकोटिज्ययोर्योगान्तरयोः ज्ञाते तदानयनम्] · द्विघ्नार्धराशि[योगः] जीवायोगः परस्तथा शून्यम् ॥

विवरं च भवति कोटिः कर्णदोर्गुणयोस्स्वार्धराशिपदे ॥ २७ ॥

[ग्रहोदये शीघ्रकेन्द्रम्] • दृगदृश्यकाललिप्ताः खगुण[३०]घ्नास्स्वोदयासुभक्ताः प्राक् । स्वास्तविलग्नासुहृताः [प]श्चाद्भागान्विताः केन्द्रम् ॥ २८ ॥ फलगुणतो भुजभागा दृगदृश्यकलान्विता ज्ञभार्गवयोः । अतिचारिणोविहीना वक़गयोः केन्द्रमुद्दिष्टम्। २९ ॥ Text of Ms. A : [25] भुजकोटियुतत्रिज्पावर्गातरभेदलकृत्पा : अंत्समूलं घुल्कं योगाधेनैकजीवा सा । [26] व्यासार्धकृतिडिघ्नार्घातरवर्गानि। ता ततो मूकं। विविरयुतोनं दलितं भुजकोटिज्पे स्रुतिश्च तत।

[27] द्विघ्रार्धराशेः” “ ” – ” जीवायोग्गः परस्तथा शून्पं ।
विवरं च भवति कोटिकर्णदोर्गुणयोस्स्मार्धराशिपदे ।
[28] दृगदृश्पकलालिप्ताः खणगुघ्नास्स्वोदयासुभक्ताः प्राक्

स्वाप्तविलग्नासुहृताः श्चाद्भागान्विताः केन्द्रं ।

[29] फलगुणितो भुजिघातादृगदृश्पकलान्विता ज्ञभार्गवयोः अतिचारिणो विहीना वक्रगयोः केन्द्रमुद्दिष्ट।

Ms. B : 27 b योगा: