पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/155

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

130 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे अधिकारः11 समभोगीन्यन्यानि समभोगो मध्यमा गतिः शशिनः ॥ स्वदलयुतोऽध्यर्धाख्यो भोगो दलितो हि खण्डसंज्ञः ॥ ५ ॥ [अभिजिन्नक्षत्रस्य स्फुटभोग:]] भगणाश्चक्राच्छुद्धा भोगोऽभिजितोऽथवेन्दुभगणहृताः ॥

क्ष्माहाः फलं भ[ २७]हीनं घटिकाद्यो भ[२७]घ्रशशिभगणाः ॥ ६ ॥ वियुताः क्वहाद् गतिघ्ना भगणविभक्ता विधोः कलादिर्वा ॥ भगणकलाः[२१६००] शशिभुक्त्या भजिताः शेषोऽथवा प्रोक्तः ॥ ७ ॥

!स्फुटनक्षत्रसाधनम्]

द्युचरो भभोगहीनो गतयेया लिप्तिकाः स्वभुक्तिहृताः । दिवसादिभोगो [भवति] द्युच्चराक्रान्तस्य धिष्ण्यस्य ॥ ८ ॥

[अभिजिन्नक्षत्रस्य संस्थितिः।] चैश्वान्त्यांध्नावभिजिच्छ्वणघटीचतुष्टये [४] प्रथमे । तत्रेष्टं भवति कृतं जातस्य मृत्युरचिरेण ॥ ९ ॥ Text of Ms. A : [5] समभोगीन्पन्पानि समभोगो मध्पमा गतिः शशिनः स्वदलयुताध्पर्धाख्यो भागी दलितादखंहमध्पः ॥

[6] भगणाच्चक्राश्छुद्व भोगोभिजिताथवेद्रभगणहृताः

क्ष्माहः फलं भहीनं घटिकाद्यो भघ्नशशिभगणः ।

[7] वियुत्काः क्वाहा गतिघ्ना भगणविभक्ता विधो कलादि वा

भगणकला शशिभुक्त्या भाजिताः शेषोथवा प्रोक्तः ।

[8] द्युचरो भभोगहीनो गतयेया लिप्तिकाः स्वभुक्तिहृता:

दिवसादिभोगो द्युचराक्रांतस्प धिष्ण्यस्प ।

[9] वैश्वांत्पांध्रावभिजिश्छवणघटीचतुष्टये प्रथमे

तत्रेष्टं भवति कृतं जातस्प मृत्पुरचिरेण।