पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/125

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

100 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः II [द्वितीयविधिः] ज्यां प्रोज्झय वासर[१५]कृतिः शेषगुणा ज्यान्तराब्धि[४]हतिभक्ता । फलयुक्सपादरसशर[५६1/4]शुद्धसंख्याहतिश्चापम् ॥ ८४ ॥ [भुक्ताभुक्तज्यान्तरप्रयोगेण इष्टधनुःसाधनम्।] [प्रथमविधिः] द्वि[२]गुणभुक्तज्यान्तरयुतहीनाऽऽद्योऽपरोऽवशेषयुता ॥ भुक्तज्याऽम्बक[२]गुणिता ज्यान्तरभक्तौ स्फुटौ च विवरयुतेः ॥ ८५ ॥ आद्यर्धद्विगतापरराश्योर्मूलं तदाद्यदलयोगश्च । विवरं शशाङ्क[१]हीन चापगुणं विकलचापं स्यात्। ८६ ॥ [द्वितीयविधिः] भुक्ताभुक्तज्यायुतिदलचापवधो भवेत्प्रथमसंज्ञः ॥ चापकृतिविकलघातोऽपरः स्फुटौ ज्यान्तरार्धेन ॥ ८७ ॥ भक्तावाद्यर्धकृतिद्वितीयविवरैक्यपदं यत्स्यात् ॥ तत्प्रथमार्धान्तरमिह चापं विकलं भवत्येव ॥ ८८ ॥ Text of Ms. A :

[84] ज्यां प्रोज्ज्प वासरकृतिः शेषगुणाज्ज्पांतराव्दिहतिभत्का

फलपुष्क्सणदशरशुद्धस्पासंख्पयाहतिश्चायं ।

[85] त्रिगुणतुक्तज्यांत्तपुत्तहीनादयौपरोवशेषयुत्ता ।

भुक्तज्पांतरगुणिता ज्पांतरभक्तौ स्फुटौ च विवरयुक्तेः ।

[86] आद्यवद्विगत्तापरराश्पोर्मूलं तदाद्यदलयोगश्च

विवरं सशांकहीनं चापगुणं विकलचापं स्पात् ।

[87] भुक्ताभुक्तज्पाघुतिदलचापवयो भवेत्प्रथमसंज्ञः

चापकृतिविकलघातोपरः स्फुटी ज्यांतरार्धेना ॥ ॥

[88] भक्तावाद्यर्धयुतिद्वित्वीयविवरैकायतदं स्पात्

तत्प्रथमाध्पांतरमिह चापं विकलाद्भवत्पेवः ।