सामग्री पर जाएँ

पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/126

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 101 [तृतीयविधिः] भुक्तज्याऽन्तरभक्ता फलमृणधनं तत्स्वसंगुणं कृत्वा ॥ फलवर्गे पादयुते फलयुतहीने द्विसंगुणं विकलम् ॥ ८९ ॥ विवराप्तं चातः पदमेतत्फलविवरमर्धोनम् ॥ स्वमभीष्टचापगुणितं क्रमोत्क्रमाद्विकलखण्डधनुः ॥ ९० ॥ [चतुर्थविधिः] विवरार्धोनयुताऽऽद्यो भुक्तज्या विवरहृत्ततो वर्गात् ॥ विवरार्धहृत्विकलवियुग्युतान्सूलमाद्यतद्विवरम् ॥ ९१ ॥

वा जीवान्तरदलहृतविकलकृतिविवरतः पदं युक्तम्।
हीनं प्रथमात्तत्फलविवरं चापाहतं चापम् ॥ ९२ ॥

[नीचोच्चविधिना सूर्याचन्द्रमसोः स्पष्टीकरणम्] [भुजाफल-भुजान्तरफले]

परिधिघ्रभांशभाजितभुजकोटिज्ये तयोः फले भवतः ॥ रविशशिदोःफलचापं मेषतुलादिस्थनिजकेन्द्रे ॥ ९३ ॥

Text of Ms. A : [89] भुक्ताज्पांतरभक्ता फलमृणधनं तद्विसंकुणं कृत्वा फलवगें पादयुते फलघुतहीने द्विसगुणाद्विवालं। । [90] विवराप्तं चातः पदमेतत्फलविवरमर्धोनं । समभीष्टचापगुणितं कमात्क्रमाद्विकलखंडधनुः । ॥ [91] विवरार्धोनघुताद्यो भुकूज्पा विवरहत्ततो वर्गात् विवरविकलांशहतिवियुग्पुतान्मूलमाद्यतद्विवरं । [92] वा जीवांतरदलाहृत। विकलस्छिरचिवरत: पद युत्कं हीन दलनातत्फलविवरं चापाहत चापं । [°3] परिधिघ्नमांश्रिभाजितभुजकोटिज्पे तयोः फलं भवतः रविशशिदोःफलचापं मेषतुलादिस्छनिजकेन्द्रे ॥ Ms. B: 89 d द्विसंगुणा द्विवलं 93 a°माजितमुज'