द्विधा भवेद्रूपविभाग एवं स्थानैः पृथग्वा गुणितः समेतः । |
अत्रोद्देशकः । |
बाले बालकुरङ्गलोलनयने लीलावति प्रोच्यतां |
न्यासः | गुण्यः १३५ ! गुणकः १२ ॥
गुण्यान्त्यमङ्कं गुणकेन हन्यादिति कृते जातम् १६२० ।
अथ वा गुणरूपविभागे खएडे कृते = । ४ । आभ्यां पृथग् गुण्ये गुणिते युते च जातम् १६२० ॥
अथ वा गुणकस्त्रिभिर्भक्तो लब्धम् ४ । एभिस्त्रिभिश्च गुण्ये गुणिते जातं तदेव १६२० ।।
अथ वा स्थानविभागे खएडे १ । २ । आभ्यां पृथग्गुण्ये गुणिते यथास्थानयुते च जातं तदेव १६२० ॥
अथ च द्वयूनेन १० गुणेन, द्वाभ्यां च २ पृथग्गुण्ये गुणिते युते च जातं तदेव १६२० ॥ अथ वाऽष्टयुतेन गुणेन २० गुएये गुणितेऽष्ट८ गुणितगुएयहीने च जातं तदेव १६२० ।
इति गुणनप्रकारः । |
अत्रोपपत्तिः --गुणचितुं योग्यो गुण्यस्तथा च येन गुण्यते स गुणक इति ? अत्र गुणकस्थानस्थितानां गुण्यानां संकलनमेव गुणनफलं, तच्च गुन्यगुणकयो र्धात्रतुल्यं भवत्यतः प्रथमः प्रकार उपपन्नः ।
यदि गुणकः = गु = अ + क, तदा प्रथमप्रकारेण गुणतफलम् = गुफ
= गुXगुण्य = { अ + क ) भुज्य
= अ.गुण्य - क.गुण्य,
अत उपपन्नो द्वितीय प्रकारः । |
चा रेखागणितद्वितीयाध्यायप्रश्रमक्षेत्रेण सुगमतयोपपद्यते ।
यदि च गु = अ.क
तद् गुणनफलम् = गुण्य.गु = गुण्य, अं. क
अत उपपद्यते तृतीयः प्रकारः । |
चतुर्थप्रकारे तु स्थानवशेन गुणकशकलं विधाय द्वितीयप्रकारे गुणनफलं साधितमिति ।