पृष्ठम्:लीलावती.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लीलावती ।


लीलागललुलल्लोलकालव्यालविलासिने | गणेशाय नमो नीलकमलामलकान्तये ॥ १ ॥ एकदशशतसहस्त्रायुतलक्षप्रयुतकोटयः क्रमशः | अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ २ ॥ जलधिश्चान्न्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्यायाः स्थानानां व्यवहारार्थं कृताः पूर्वैः ॥ ३ ॥

अत्र युक्तिः - इह हि गणितशास्त्रे सर्वत्रैव नवमिता अङ्क: परिद्दश्यन्ते, अतोऽत्र​ तथा गुणोत्तरः कल्पनीयो यथा तदन्तर्वर्तिनस्ते ह्याङ्का भ​त्रेयुः कथमन्यथा तत्स्थान- नियमव्यवस्था तद्नागनामुकूला भन्नेदेवं कृते सति तत्रैकाधिकं कृत्वा दशगुणोत्तरा स्थानसंज्ञा कृतेति प्राचीनानां कल्पना त्वतीच रमणीया, तत्क्रमिकाङ्गगणना- व्यवहारोच्छेदापत्तेः । तथा च ग्रहगणितोत्कखकक्षामाने मध्यपर्यन्तं ब्रह्मणः परायुष प्रमाणे च परार्धपर्यन्तं संख्मास्थानानि जायन्ते, तानि चाष्टादशसमा- न्येवोपलभ्यन्ते तन्मध्य एव गणितप्रसरणत्वात्तदधिकस्थानकथनाप्रयोजनाच्य प्राचीनैरेकादितः परार्धवव्य​ द्वादशस्थानानि तत्पृथक्नामानि च युक्तियुक्तानि विहितानीति |

अथ सङ्कलितव्यव​कलितयोः करणसूत्रं वृत्तार्धम् । कार्यः क्रमादुत्क​मतोऽथ वाऽङ्गयोगो यथास्थानकमन्तरं वा । अत्रोद्दशेकः । अये बाले लीलावति मतिमति ब्रूहि सहितान्द्वि पञ्चद्वात्रिंशत्न्निनवतिशताष्टादश दश | शतोपेतानेतानयुतवियुतांश्चापि वद मे यदि व्यक्ते युक्तिव्यवकलनमाग​ऽसि कुशला ॥ १ ॥ न्यासः | २ | ५ |३२ | १६३/६/१०/१०० संयोजनाज्बातम् ३६० अयुता - (१००००) च्छोधिते जातम् ६६४० | इति सङ्कलितव्यव​कलिते । अत्रोपपत्तिः-सजातीयानामङ्कानां योगान्तरे भवतः, साजात्यन्त्विह सम स्थानपरम् | अव्रैतदुक्तं भवति, एकस्थानीया अङ्का एकस्थानीया: सजातीयाः शतस्थानीवास्तु शतस्थानीयै: सह सजातीया इत्यादि । अतो यथास्थानकानामङ्कानां योगवियोगकरणं युक्तियुक्तमिति । गुणने करणसूत्रं सार्धवृत्तद्वयम् । गुण्यान्त्यमङ्कं गुणकेन हत्यादुत्सारितेनैवमुपान्तिमादीन् ॥ ४ ॥ गुएयस्त्वधोऽधो गुणखण्डतुल्यस्तैः खण्डकैः संगुणितो युतो वा । भक्तो गुणः शुध्यति येन तेन लब्ध्या च गुण्यो गुणितः फलं वा ॥५॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३&oldid=399178" इत्यस्माद् प्रतिप्राप्तम्