३] ॥ कुलपरिशुद्धिपरिवर्तः ॥ २१
अपरे त्वाहुः । इदं वत्सराजकुलं आढ्यं च स्फीतं च क्षेमं च सुभिक्षं चेदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भसंस्थानायेति ॥ अपर एवमाहुः । इदमप्यप्रतिरूपम् । किं कारणम् । तथा हि । वत्सराजकुलं प्राकृतं च चण्डं च न चोज्ज्वलिततेजस परपुरुषजनावृतं च न ५ मातृपितृसतैजः कर्माभिनिर्वृत्तं चोच्छिन्नवादी च तत्र राजा । तेन ५ तदप्यप्रतिरूपम् ॥
अपरे त्वाहुः । इयं वैशाली महानगरी आढ्या च स्फीता च क्षेमा च सुभिक्षा च रमणीया चाकीर्णबहुजनमनुष्या च वितर्दि- निर्ह्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता च पुष्पवाटिका- १० वनराजिसंकुसुमिता च । अमरभवनपुरप्रकाशा सा प्रतिरूपास्य १० बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ अपर आहुः । साप्याप्रतिरूपा । किं कारणम् । तथा हि । तेषां नास्ति परस्परन्यायवादिनां नास्ति धर्मचरणं नोत्तममध्यवृद्धानुपालिता । एकैक एव मन्यते । अहं राजा अहं राजेति । न च कस्यचिच्छिष्यत्वमभ्युपगच्छति न धर्मत्वे । १५ तेन साप्याप्रतिरूपा ॥ १५
अपरे त्वेवमाहुः । इदं प्रद्योतकुलं महाबलं च महावाहनं च पर- चमूर्भिरप्यविजेयं च । तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रति- संस्थानायेति ॥ अपरे त्वेवमाहुः । तदप्यप्रतिरूपम् । किं कारणम् । तथा हि । ते चण्डाश्चपला रौद्राश्च परुषाश्च साहसिकाश्च न च कर्मद- २० र्शिनः । तेन तदप्यप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ २०
अपर एवमाहुः । इयं मथुरा नगरी आढ्या च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च । राज्ञः सुबाहोः