सामग्री पर जाएँ

पृष्ठम्:ललितविस्तरः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० ] ॥ ललितविस्तरः ॥ [ च०

किं कारणं भिक्षवः बोधिसत्त्वः कुलविलोकितं विलोकयति स्म ॥ न बोधिसत्त्वा हीनकुलेषूपपद्यन्ते । चण्डालकुलेषु वा । वेणुकारकुले वा रथकारकुले वा पुल्कसकुले वा । अथ तर्हि कुलद्वये एवोपपद्यन्ते । ब्राह्मणकुले क्षत्रियकुले च । तत्र यदा ब्राह्मणगुरुको ५ लोको भवति तदा ब्राह्मणकुले उपपद्यते । यदा क्षत्रियगुरुको ५ लोको भवति तदा क्षत्रियकुले उपपद्यते ॥ एतर्हि भिक्षवः क्षत्रियगुरुको लोकः । तस्माद्बोधिसत्त्वाः क्षत्रियकुले उपपद्यन्ते ॥ सम्यक् च संप्रतीक्ष्य बोधिसत्त्वस्तुषितवरभवनस्थितश्चत्वारि महाविलो- कितानि विलोकयति स्म ॥ १० एवं चावलोक्य तूष्णीमभूत् ॥ इति हि भिक्षवस्ते देवपुत्रा १० बोधिसत्त्वसत्त्वान्यान्त्योऽन्यं परिपृच्छन्ति स्म । कतमस्मिन्कुलरत्ने कियद्रूपायां जनन्यां बोधिसत्त्वः प्रतिष्ठास्यतीति ॥ तत्र केचिदाहुः । इदं वैदेहीकुलं मगधेषु जनपदेषु आढ्यं च स्फीतं च क्षेमं सुभिक्षं चेदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भसंस्थानस्य ॥ अपरे लाहुः । न तत्प्रतिरूपम् । १५ तत्कस्मात् । तथा हि । तन्न मातृशुद्धं पितृशुद्धं असुतं चञ्चलमनवस्थितं १५ परिजल्पकाभिश्चन्दितं न विपुलपुण्याभिषिक्तम्सत्कुलप्रदेशोपचारं तीर्थामृतह्रदतडागाकीर्णं अर्घट्टमिव प्रसवन्तावासं । तेन न तत्प्रतिरूपम् ॥ अपरे त्वाहुः । इदं पुनः कोशलकुलं महावाहनं च महापा- रिवारं च महाधनं च । तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसं- २० स्थानायेति ॥ अपरेऽप्याहुः । तदप्यप्रतिरूपम् । तत्कस्माद्धेतोः । तथा २० हि । कोशलकुले मातङ्गच्युत्युपपन्नं न मातृपितृशुद्धं हीनाधिमुक्तिकं न च कुलोदितं न चापरिमितधनरत्ननिधिसमुत्थितं । तेन न तत्प्रतिरूपम् ॥