३] ॥ कुलपरिशुद्धिपरिवर्तः ॥ १३
यत्र स्थित्वा सुमते दर्शिष्यसि बोधिसत्त्वचरितम् ॥ यद्वच्च भाजनेऽस्मिन् मणिरत्नं तिष्ठते भवति श्रीमान् । मणिरत्ने विमलबुद्धे प्रवर्ष जम्बुध्वजे वर्षम् ॥ एवं बहुप्रकारा सङ्गीतिरानुनिश्चरा गाथा । चोदयति करुणामनसं ह्ययं स कालो मा उपेक्षस्व ॥ इति ॥ ५
॥ इति श्रीललितविस्तरे समुत्साहपरिवर्तो नाम द्वितीयोऽध्यायः ॥
इति हि भिक्षवो बोधिसत्त्व एवं धर्मकाव्यसञ्चोदितः संस्ततो
महाविमानान्निष्क्रम्य धर्मोच्चयो नाम महाप्रासादो यत्र निषद्य १०
बोधिसत्त्वस्तृषिते देवभवने धर्मं देशयति स्म । तं बोधिसत्त्वो-
भिरोहति स्म । अभिरुह्य च सुधर्में सिंहासने निषीदति स्म ॥
अथ ये देवपुत्रा बोधिसत्त्वस्य सभागाः समसमानसंभलितास्तेऽपि
तमेव प्रासादमभिरोहन्ति स्म । ये च दशदिशो निपतिता बोधिसत्त्वाः
सभागचरिता बोधिसत्त्वस्य देवपुत्रास्तेऽपि तं प्रासादमभिरुह्य १५
यथार्हा प्रज्ञप्तेषु सिंहासनेषु स्वकस्वेषु निषीदन्ति स्म । अपगताप्सरोगणाः
अपगतप्राकृतदेवपुत्राः समानाध्याशयपरिवारा अष्टषष्टिकोटीसहस्रा-
णि ॥ इति हि भिक्षवो द्वादशभिर्वर्षैर्बोधिसत्त्वस्य मातुः कुक्षिमवक्रमणं
तात ॥ २०
अथ शुद्धावासकायिका देवपुत्रा जम्बूद्वीपमागत्य दिव्यं वर्णमन्त- र्धाप्य ब्राह्मणवेषेण अङ्गणवेदानध्यापयन्ति स्म । यद्रूपा संबो-