पृष्ठम्:लघुभास्करीयम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोध्यायः

लम्बकाभिहता' त्रिज्या परमक्रान्तिसंहृता।
लब्धं स्वदेशसम्भूतो* व्यवच्छेदः प्रकीर्तितः ॥ १ ॥
लङ्कोदयानुपाताप्तानवगम्य रवेरसून् ।
तिथिमध्यान्तरासुभ्यो हित्वा शोध्यं गतं" ततः ।। २ ।।
शेषेऽपि* यावतां सन्ति व्युत्क्रमात् तावतस्त्यजेत् ।
भागा' लिप्ताश्च पूर्वाह्न मध्यलग्नमुदाहृतम् ।॥ ३ ॥
अपराह्न चयः कार्यो गन्तव्यादेर्विवस्वतः ।
पातहीनात्ततः कल्प्यो* विक्षेपः सौम्यदक्षिणः ।। ४ ।।
मध्यलग्नापमक्षेपपलज्याधनुषां* युतिः ।
तुल्यदिक्त्वे विदिक्कानां* विश्लेषश्शेषदिग्वशात्' ।। ५ ।।
मध्यजीवा तया क्षुण्णां* प्राग्विलग्नभुजां' हरेत् ।
व्यवच्छेदेन यल्लब्धं वर्गीकृत्य विशोधयेत् ॥ ६ ॥
मध्यज्यावर्गतः शेषो वर्गे दृक्षेपसंभवः ।
तत्कालशङ्कुवर्गेण युक्त्वा तं प्रविशोधयेत् ।। ७ ।।
विष्कम्भार्धकृतेर्मलं रूपरन्ध्रनिशाकरैः ।
हृत्वा लब्धस्य भूयोंऽशो*४ विज्ञेयो योऽर्धपञ्चमैः ।। ८ ।।
लम्बनाख्यो' भवेत्कालो नाडिकाद्यो* रवेग्रहे ।
पर्वणः शोध्यते प्राह्म१७ दीयते मध्यतोऽपरे *८ ॥ ८ ॥
एवं कृतेन भूयोऽपि पर्वणा * * कर्म कल्प्यते ३० ॥
कालस्य लम्बनाख्यस्य निश्चलत्वं दिदृक्षुणा *' ।। १० ।।


* "हत A; लम्बकेन हता (C. ३ ०न्तिताडिता A; °संहता P. 3 लब्ध: D, P.४ स्वदेशजो भूमेः P. * नतं (C. ६ शेषोऽपि A . ७ भाग B, C, D. * कार्यो A:* लग्नावमक्षेपवलज्या° A, C; ०क्षेपफलज्या° D; •लग्नावमक्षेप* P. १० दिक्चविदिक्स्थानां A; ०दिक्के विदिक्कानां B . ११ विश्लेषश्लेषदिग्व० P. १ २. मध्यजीवायतक्ष० P. १ ३ प्राग्वल्लग्न० A. १४ भूतांशो A. *** लम्बनाडयो A. १ *६ नाडिकाभ्योA. *७ प्रालो A. १०८ मध्यतः परे A. १९ पर्वणः A . २० कथ्यते D. २१ निश्लत्वं दि* B; निश्चलत्व दि* P.