८२
ययोर्वर्गराश्योर्योगो वर्गो न भवति तौ अजबजौ राशी कल्पितौ। पुनर्दहरेखा अङ्कसंज्ञार्हा कल्पिता। शेषमुपरितनक्षेत्रोक्तवत् कार्यं[१] यथा दझरेखोत्पन्ना भवति। तस्मात् दहदझरेखे इष्टे भविष्यतः। कुतः । अनयोर्वर्गौ अबअजाङ्कयोर्निष्पत्तौ स्तः। सा निष्पत्तिर्वर्गनिष्पत्तिसदृशी नास्ति। तस्मात्तौ केवलवर्गमिलितौ भविष्यतः। दहम् अङ्कसंज्ञार्हमस्ति। तस्मात् दझवर्गोऽङ्कसंज्ञाह भविष्यति। अबबजयोर्निष्पत्तिर्वर्गद्वयनिष्पत्ति- र्नास्ति। दहहझ-वर्गौ तस्यां निष्पत्तौ स्तः। तस्मात् दहवर्गो दझवर्गस्य तद्रेखाभिन्नान्यरेखावर्गस्य च योगेन तुल्योऽस्ति। यथेष्टं कल्पितं तथा सिद्धम्। अस्य[२] क्षेत्रमुपरितनवबोध्यम् ॥
अथ षड्विंशतितमं क्षेत्रम् ॥ २६ ॥
अत्र[३] तथा मध्यरेखाद्वयोत्पादन- मिष्टमस्ति ययोर्वर्गौ केवलमिलितौ भवतः। रेखे चाङ्कसंज्ञार्हैक- क्षेत्रस्य भुजौ भवतः। पुनरधिकरेखावर्गो लघुरेखावर्गस्य मिलितान्यरेखावर्गस्य च योगेन तुल्यो भवति।
अबरेखे तथा कल्पिते यथा अवर्गो बरेखावर्गस्य अरेखामिलितान्यरेखावर्गस्य च योगेन तुल्यो भवति। अनयोरर्मध्ये एका रेखा मध्यनिष्पत्तौ निष्कास्या। सा जरेखा कल्प्या। एताभ्योऽन्या चतुर्थी अस्यां निष्पत्तौ निष्कास्या। सा दरेखा कल्पिता। तत्र जदरेखे मध्यरेखे जाते। अनयोर्वर्गौ केवलमिलितौ भविष्यतोऽङ्कसंज्ञार्हक्षेत्रस्य च भुजौ भविष्यतः। अङ्कसंज्ञार्हक्षेत्रस्य च भुजौ भविष्यतः। अनयोर्जवर्गो दवर्गजमिलितरेखा-