सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९७

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

८१

अथ चतुर्विंशतितमं क्षेत्रम् ॥ २४ ॥


 तत्र तादृशरेखाद्वयस्योत्पादनमिष्टमस्ति ययोः केवलवर्गावङ्कसंज्ञार्हौ मिलितौ भवतोऽधिकरेखावर्गो लघुरेखावर्गस्य महद्रेखामिलितान्यरेखावर्गस्य च योगेन तुल्यो भवेत् तथोत्पादनमिष्टमस्ति।

 तदा द्वावङ्कवर्गराशी कल्प्यौ यथोरन्तरं वर्गो न भवति। तौ अबबजौ वर्गौ कल्पितौ। पुनर्दहरेखाङ्कसंज्ञा- र्हा कल्पिता। अस्योपरि दझहं वृत्तार्धं कार्यम्। तत्र दहवर्गदझवर्गयोर्निष्पत्तिः अबअज-निष्पत्ति तुल्या कल्पिता। तस्मात् दहदझौ इष्टरेखे भविष्यतः।

अस्योपपत्तिः ।


 दझं पूर्णज्या कल्पिता। हझरेखा संयोज्या। तत्र दहवर्गदझ वर्गयोर्निष्पत्तिद्वयोर- ङ्कयोर्निष्पत्तितुल्यास्ति।[] वर्गराश्योर्निष्पत्तौ न स्तः। तस्मादेतद्रे- खाद्वयं केवलमिलितवर्गो भविष्यति पुनर्दहरेखावर्गोऽङ्क-संज्ञार्होऽस्ति। तस्मात् दझमप्येवं भविष्यति। पुनर्दहवर्गो दझवर्गहझवर्गयोगतुल्यो- ऽस्ति। तदा दहवर्गस्य हझवर्गेण निष्पत्तिस्तथा भविष्यति यथा अबबजाङ्कवर्गराश्योर्निष्पत्तितुल्या भविष्यति। तस्मात् हझं दहेन मिलितं भविष्यति। कुतः। यतोऽनयोर्वर्गौ द्वयोरङ्कयोर्वर्गयोर्निष्पत्तौ स्तः। तस्माद्वे रेखे इष्टे जाते॥

अथ पञ्चविंशतितमं क्षेत्रम् ॥ २५ ॥


 तादृशरेखाद्वयस्योत्पादनमिष्टमस्ति ययोर्वर्गावङ्कसंज्ञार्ह भवतः पुनः केवलवर्गौ मिलितौ यथा भवतः। पुनर्बृहद्रेखावर्गो लघुरेखावर्गस्य महद्रेखाभिन्नान्यरेखावर्गस्य च योगेन तुल्यो भवति।


  1. १ दहदझवर्गयो J. भा. 11