पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हजजदौ भिन्नौ स्तः । तस्मात् जझमध्येवमेव भविष्यति । तस्मात् दझं मध्यक्षेत्रं जातम् । इदमेवेष्टम् !! अथ विंशतितमं क्षेत्रम् ॥ २० ॥ इयोर्मध्ययोः क्षेत्रयोरन्तरं करणीरूपं भवति । एको मध्यः अबः कल्पितः । द्वितीयो मध्यः अः कल्पितः । अन्तरं वं कल्पितम् | जदम् अङ्कसंज्ञा कल्पितम् । अस्योपरि अब- झ vie Ver अ ब्र ज तुल्यं क्षेत्रं कार्यम् । अस्य द्वितीयो भुजो जहो भविष्यति । पुनर्द्वि- तीयक्षेत्रतुल्यं क्षेत्रं कार्यम् । तत्र जझं द्वितीयो भुजो भविष्यति । अनयोर्वर्गावकसंज्ञा भविष्यतः । एतौ जदात् संकाशात् भित्रौ भविष्यतः । हेवं क्षेत्रान्तरं भविष्यति । इदं च करणीरूपं भविष्यति । यदि करणीरूपं न भवति तदाकसंज्ञाई कल्पितम् । तदुत्पन्नभुजो झह: अङ्कसंज्ञार्हो भविष्यति । अस्य वर्गो जझवर्गश्चाङ्कसंज्ञार्होऽस्ति । पुनर्ज- झझहयोभिन्नत्वात् जझझहयोर्घातोऽनयो रेखयोर्वर्गाद्भिन्नो भविष्यति । तस्मात् जझझहवर्गों जझझहयोर्द्विगुणघाताद्भिनौ भवतः । तस्मात् संपूर्ण मिलितं जहवर्गतुल्यं जझझहअङ्कसंज्ञार्हवर्गयोभिन्नं भविष्यति । तस्मात् तत्करणीरूपं भविष्यति । कल्पितं चाङ्कसंज्ञाहम् । इदमर्शे- द्धम् । अस्मदिष्टं समीचीनंम् ॥ १ J. drops सकाशात्. २ एवं क्षेत्रान्तरं करणीरूपं भविष्यति । यदि करणीरूपं न भवति J. ३ अझझहयोर्घातो भिन्नोऽस्ति । जझझह्योभिनत्वात् । तस्मात् &c. D. ४ इदमनुपपन्नम् J.