पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा क्षेत्रं बजम् । अवअजो भुजौ मिन्नौ कल्पितौ । पुनर् द अबभुजोपरि बदसमकोण- समचतुर्भुजं क्षेत्रं कार्यम् । त स्मादिदमसंज्ञाहै भविष्यति ज 4 V160 Vroi अ कल्पितक्षेत्राद्भिनं च पतिष्यति । रेखयोभिन्नत्वात् । तस्मात् क्षेत्रं करणीरूपं भविष्यति । एवं हि यस्या रेखाया वर्गः क्षेत्रतुल्यो भवति तदा सापि रेखा करणीरूपा भविष्यति । इदमेवेष्टम् | पूर्ववत् क्षेत्रं कार्यम् || अथ मध्यरेखाः कदाचित् मिथो मिलिता भवन्ति । यथा अबरेखा असंज्ञा कल्पिता । यस्य क्षेत्रस्यैकभुजः अर्ज भवति द्वितीयश्च अबरेखाचतुर्थांशतुल्यो भवति तत्क्षेत्रतुल्यो यस्या रेखाया वर्गों भवति सा रेखा मध्यरेखा भवति | सैव रेखा बजक्षेत्रतुल्यो यस्याः रेखाया वर्गो भविष्यति तया मिलिता भवति । कुतः । अनयो रेख- योग रूपस्य चतुर्णी च निष्पत्तौ भविष्यतः । रूपं चत्वारः वर्गों स्तः । कदाचिन्मध्यरेखा भिन्ना भवन्ति मिलितवर्गाश्च भवन्ति । कुतः | यस्या रेखाया वर्गस्तत्क्षेत्रतुल्यो भवति यस्य क्षेत्रस्यैको भुजः अजं द्वितीयश्च अबार्षतुल्यो भवति तदा सा रेखा मध्या भवति । अस्या वर्गस्तदेखावर्गमिलितो भवति यस्या रेखाया वर्गो बजक्षेत्रतुल्योऽस्ति । यतोऽनयोग अवर्गाकनिष्पत्तौ स्तः । कदाचित्ता मध्यरेखा भिन्ना तदूर्गाश्च भिन्ना भवन्ति । कुतः | यस्या रेखाया वर्गस्तेन क्षेत्रेण तुल्यो भवति यस्य क्षेत्रस्यैकभुजः अवं द्वितीयभुजः अजरेखाया भिन्नो भवति तस्य वर्गोऽङ्कसंज्ञा भवति सा रेखा मध्या भवति । सा तद्वेखातो भिन्ना भविष्यति यस्या रेखाया वर्गो बजक्षेत्रतुल्यो भवति । यतोऽनयोर्वग भिन्नौ भवतः । १ भिन्नरेखात्वात् J. २ क्षेत्र पूर्ववत् कार्यम् J. ३ यदि D., K.