७४
मिलितं चास्ति । तस्मात् बजं दजेन मिलितं भविष्यति। तस्मात् बदं दजेन मिलितं भविष्यति। इदमेवे ष्टमस्माकम्॥[१]
अथ चतुर्दशं क्षेत्रम् ॥ १४ ॥
द्वे[२] रेखे न्यूनाधिके यदि भवतस्तत्र न्यूनरेखावर्गचतुर्थांशतुल्यं क्षेत्रं बृहद्रेखाखण्डोपरि तथा कार्यं यथा शेषखण्डक्षेत्रं वर्गरूपमवशिष्यते । तत्क्षेत्रं यद्यधिकरेखायाः खण्डद्वयं भिन्नं करोति तदा महद्रेखावर्गो लघुरेखावर्गस्य महद्रेखाभिन्नान्यरेखावर्गस्य च योगेन तुल्यो भविष्यति। यदि महद्रेखावर्ग ईदृशो भवति तदा क्षेत्रं तस्या रेखायाः खण्डद्वयं भिन्नं करिष्यति।
उपरितनक्षेत्रेणैव निश्चितं बजरेखावर्गः अवर्गबहवर्गयोगतुल्योऽस्ति। यदि बदं दजाद्भिन्नं भवति तदा बजं बहाद्भिन्नं भविष्यति। कुतः । यदि मिलितं स्यात्[३] तदा बददजौ मिलितौ भविष्यतः। इदमशुद्धम्।
पुनरपि यदि बजबहौ मिन्नौ भवतस्तदा बददजावपि भिन्नौ भविष्यतः। कुतः । यदि मिलितौ भवतस्तदा[४] बजबहौ मिलितौ भविष्यतः। इदमशुद्धम् । अस्मदिष्टं समीचीनम् ॥
अथ पञ्चदशं क्षेत्रम् ॥ १५ ॥
यानि समकोणक्षेत्राणि भवन्ति तेषां भुजा यद्यङ्कसंज्ञार्हा भवन्ति[५] तदा तत्क्षेत्रमप्यङ्कसंज्ञार्हं भवति।