पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ मिलितं चास्ति । तस्मात् बजे दजेन मिलितं भविष्यति । तस्मात् बर्द दजेन मिलितं भविष्यति । इँदमेबेष्टमस्साकम् || अथ चतुर्दशं क्षेत्रम् ॥ १४ ॥ द्वे रेखे न्यूनाधिके यदि भवतस्तत्र न्यूनरेखावर्गचतुर्थीश- तुल्यं क्षेत्रं बृहद्रेखाखण्डोपरि तथा कार्यं यथा शेषखण्डक्षेत्रं वर्गरूपमवशिष्यते । तत्क्षेत्रं यद्यधिकरेखायाः खण्डद्वयं भिन्नं करोति तदा महदेखावर्गो लघुरेखावर्गस्य महद्रेखा भिन्नान्य- रेखावर्गस्य च योगेन तुल्यो भविष्यति । यदि महदेखावर्ग ईडशो भवति तदा क्षेत्रं तस्या रेखायाः खण्डद्वयं भिनं करिष्यति । उपरितनक्षेत्रेणैव निश्चितं बजरेखावर्गः अवर्गबहवर्गयोगतुल्यो- इस्ति । यदि बदं दजाद्भिनं भवति तदा बजं बहाद्भिन्नं भवि- ध्यति । कुतः । यदि मिलितं स्यात् तदा बढ्दजौ मिलितौ भ- ब अ - हृ द विष्यतः । इदमशुद्धम् । पुनरपि यदि बजबहौ मिन्नौ भवतस्तदा बददजावपि भिन्नौ भ विष्यतः । कुतः । यदि मिलितौ भक्तस्तदा बजवहाँ मिलितौ भविष्यतः । इदमशुद्धम् । अस्मदिष्टं समीचीनम् ॥ अथ पञ्चदर्श क्षेत्रम् ॥ १५ ॥ यानि समकोणक्षेत्राणि भवन्ति तेषां भुजा यद्यङ्कसं- ज्ञा भवन्ति तदा तत्क्षेत्रमध्यङ्कसंज्ञार्ह भवति । १. J. omits अस्माकम्. २. J. has त्रयोदशक्षेत्रोकद्वे रेखे. ३. चेत् J. ४. भविष्यतः J. ५. भविष्यन्ति J.