सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८५

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

६९

अथाष्टमं क्षेत्रम् ॥ ८॥

 यानि चत्वारि प्रमाणानि सजातीयानि सन्ति तेषु प्रथमद्वितीयौ यदि मिलितौ स्तस्तदा तृतीयचतुर्थावपि मिलितौ भविष्यतः। यदा[] प्रथमद्वितीयौ भिन्नौ भवतस्तदा तृतीयचतुर्थावपि भिन्नौ भविष्यतः।

 यथा अबजदाश्चत्वारि[] प्रमाणानि सजातीयानि कल्पितानि। तत्र अबौ यदि मिलितौ स्यातां तदा तौ द्वयोरङ्कयोर्निष्पत्तौ स्याताम्। जदावप्यङ्कयोर्निष्पत्तौ भविष्यतः। तदा[] जदरेखे मिलिते भविष्यतः। यदि अबौ भिन्नौ जदावपि भिन्नौ[] भविष्यतः। कुतः। यदि भिन्नौ न भवतः मिलितौ भवतस्तदा द्वयोरङ्कयोर्निष्पत्तौ भविष्यतः। अबावप्येतादृशौ भविष्यतः । इदमशुद्धम् । अस्मदिष्टं[] समीचीनम्॥

 यदि प्रमाणानि रेखा भवन्ति तत्र अबवर्गौ मिलितौ वा भिन्नौ भवतस्तदा जदावप्येतादृशौ भविष्यतः । कुतः । अनयोर्वर्गयोः सजातीयत्वात् ॥

अथ नवमं क्षेत्रम् ॥ ९ ॥


 तादृशं[] रेखाद्वयमुत्पादनीयं यथेष्टरेखया[] प्रत्येकं भिन्नं स्यात्। तयोरेकस्या रेखाया वर्ग: कल्पितरेखावर्गाद्भिन्नः स्यात्तथा कल्पनीयो भवति।

 यथा इष्टरेखा अं कल्पिता । ययोरङ्कयोर्निष्पत्तिर्वर्गनिष्पत्तितुल्या


  1. १ यदि V.
  2. २ चत्वारः प्रमाणाः सजातीयाः कल्पिता: D.,K.,V.
  3. ३ This sentence is omitted in K. and V.
  4. ४ J. inserts तदा after भिन्नौ.
  5. ५ इष्टमस्मत्समी V.
  6. ६ तादृशरेखा J.
  7. ७ इष्टया रेखया K, J.,V.