पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अबरेखाद्वयं कल्पितम् यदि ते मिलिते रेखे भवतस्तदैतयो- निष्पत्तिर्द्वयोरङ्कयोनिष्पत्तितु- ल्या भविष्यति । तौ द्वावको अदौ कल्पितौ । अबयोर्वर्गयो- निष्पत्तिः अननिष्पत्तिवर्गतुल्या भविष्यति । जदवर्गयोनिष्पत्ति र्जदनिष्पतिवर्गो भविष्यति । जदनिष्पत्तिः अबनिष्पत्तिस्तु- ल्यास्ति । तस्माद्वयो रेखा- •वर्गयोनिष्पत्तिर्द्वयोरङ्कवर्गयोर्निष्पत्तितुल्या जाता । पुनरपि अबयोर्वर्गयोनिष्पत्तिर्जदयोर्वर्गयोनिष्पत्तितुल्या कल्पिता | हझौ जदस्य भुजौ कल्पितौ । तस्माद्वेसावर्गयो- निष्पत्ती रेखानिष्पत्तिवर्गतुल्या जाता। जदनिष्प- तिर्हझनिष्पत्तिवर्गोऽस्ति । तस्मादेखयोर्निष्पत्तिरङ्कयो निष्पत्तितुल्या जाता । तस्मात्ते देखे मिलिते संपन्ने । पुनरपि रेखावर्गयोर्निष्पत्तिरङ्कद्वयवर्गनिष्पत्ति- तुल्या न भवति तदा ते रेखे मिन्ने भवतः । यदि भिन्ने न भवतस्तदा मिलिते कल्पिते । तदा अनयो- वर्गनिष्पत्तिरङ्कद्वयवर्गनिष्पत्तितुल्या भविष्यति । इद- मशुद्धम् । अस्मदिष्टं समीचीनम् || द. .झ. अनेनेदं निश्चितं रखे यदि मिलिते स्यातां तयोर्वर्गावपि मिलितौ भवतः । यदि रेखावर्गो भिन्नौ तदा रेखे अपि भिन्ने भवतः । अस्य विलोमता नास्ति || १ निष्पत्तेस्तुल्या V. २J. omits तौ. ३ जाते J. ४ J. Omits सदा ५ वर्गयोर्नि० J. ६ J. Omits स्याताम्.