पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ अंथ षष्ठं क्षेत्रम् ॥ ६॥ ययोर्द्वयोः प्रमाणयोर्निष्पत्तिर्द्वयोरङ्कयोर्निष्पत्तितुल्या भ वैति ते मिलितप्रमाणे भवतः | यथा अब प्रमाणे कल्पिते । जदावका कल्पितौ । अवनिष्पत्ति- र्जदनिष्पत्तितुल्या कल्पिता । तदा अबौ मिलितौ भविष्यतः । अस्योपपत्तिः । अममाणस्य जतुल्या विभागाः कल्पिताः | तस्मात् हमाणमुत्पन्न जातम् । पुनर्हस्य दतुल्या घाताप्रायाः । लब्धा- को झसंज्ञोऽस्ति । तस्मात् अहनिष्पत्तिर्जरूप- निष्पत्तितुल्या भविष्यति । हझनिष्पत्तिरू- पदनिष्पत्तितुल्या भविष्यति । तस्मात् अझ निष्पत्तिर्जदनिष्पत्तितुल्या भविष्यति । अ- बनिष्पत्तितुल्यापि भविष्यति । तस्मात् बझौ समानौ भविष्यतः । अझो मिलितप्रमाणौ अह ब स्तः | तस्मात् अबौ मिलितप्रमाणौ भविष्यतः । इदमस्मदिष्टि॑म् ॥ झ T TH अथ सप्तमं क्षेत्रम् ॥ ७॥ द्वयोर्मिलितरेखावर्गयोर्निष्पत्तिर्द्वयोरङ्कवर्गयोर्निष्पत्तितुल्या भवति । यदि रेखाद्वयवर्गयोनिष्पत्तिरङ्कवर्गयोर्निष्पत्तितुल्या भवति तदा ते रेखे मिलिते भवतः । यद्यङ्कवर्गयोर्निष्पत्ती रेखावर्गतुल्या न भवति तदा ते रेखे भिन्ने ज्ञातव्ये । ७ १ अथ is omitted in V. २ भविष्यति J. ३ अबौ V. ४ झसं- ज्ञक: K, झसंज्ञकोऽस्ति V. ५ अझै मिलितप्रमाणे J. ६ ० दिष्ट समी- चीनम् J. निष्पत्तेस्तुल्या V.