६६
यदि दं जं निःशेषं न करोति तदा हं महत् प्रमाणं कल्पितम् । एतच्चैतद्वयं निःशेषं करोति। हः दं निःशेषयति। तदा अबमपि निःशेष करोति[१]। तस्मादिदं महत् प्रमाणमस्ति यतस्त्रयमपि निःशेषं करोति । यदीदं न करोति[२] तदा झं महत् प्रमाणं कल्पितम् । झम् अबौ निःशेषं करिष्यति।तदा[३] झं दमपि निःशेषं करिष्यति । पुनः स दं जं निःशेषं करोति। तदा हमपि निःशेषं करिष्यति। इदं च तस्माल्लघ्वस्ति। इदमशुद्धम् । अस्मदिष्टं समीचीनम्॥
अथ पञ्चमं क्षेत्रम् ॥ ५ ॥
मिलितयोः[४] प्रमाणयोर्निष्पत्तिर्द्वयोरङ्कयोर्निष्पत्तितुल्या भवति।
यथा अबप्रमाणे द्वे मिलिते कल्पिते।हं प्रमाणं तृतीयं कल्पनीयं येन द्वयोरपवर्तः स्यात् । हः अं यावद्वारं निःशेषयति तत्र[५] लघ्वकः जः कल्पनीयः । हप्रमाणं[६] बप्रमाणं यावद्वारं निःशेषयति तत्प्रमाणं दः कल्पितः । तस्मात् हअनिष्पत्तिः रूपजनिष्पत्तितुल्या भविष्यति । अहयोर्निष्पत्तिर्जरूपयोर्निष्पत्तितुल्यास्ति । हबयोर्निष्पत्तिः रूपदयोर्निष्पत्तितुयास्ति । तस्मात् अबयोर्निष्पत्तिर्जदनिष्पत्तितुल्या भविष्यति। एतौ जदावङ्कौ स्तः । इदमेवास्माकमिष्टम् ॥