पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तावद्यावच्छेषं न्यूनप्रमाणात् स्वल्पमवशिष्यते । पुनर्ग्यूनप्र माणात् स्वल्पे शोध्यम् । पुनस्तच्छेषं तच्छेषाच्छोध्यम् । एवं मुहुः कार्यम् । यद्येवं निःशेषं न भवति तदा ते प्रमाणे भिने स्तः । यथा अबजदं प्रमाणद्वयं तादृशं कल्पितम् । यद्येते प्रमाणे भिन्ने न भवतस्तदोभयोरपवर्तकस्तः कल्पितः । पुनर्जदं अबात्तावच्छोयं यथा अहं शेषं जदान्यूनमवशिष्यते । पुनरहं जदाच्छोध्य शेषं जझं तच अहाच्छोध्यं शेषम् अवम् | हबम् अबार्द्धादधिकमस्ति । हवं अहार्द्धादधिकमस्ति । अनेन प्रकारेण शेषं तात्र्यूनं भविष्यति । तच्च अर्व कल्पितम् । पुनस्तः दजं निःशेषं करोति । तस्मात् हबमपि निःशेषं करिष्यति । अवं च पूर्वमेव निःशेषमकरोत् । तस्मादहमपि निःशेषं करिष्यति । इदं झदं निःशेषं करोति । जदं च पूर्वमेव निःशेषमकरोत् । तस्मात् जझमपि निःशेषं करिष्यति । इदं हवं निःशेष करिष्यति । तं हवं निःशेषं करिष्यति । अहं निःशेषमक- रोत् । तस्मादवमपि निःशेषं करिष्यति । अयं ताच लघुरस्ति । इदम- शुद्धम् । इष्टं समीचीनम् || अ द झ अथ तृतीयं क्षेत्रम् ॥ ३ ॥ मिलितप्रमाणद्वयनिःशेषकारकस्योत्पादन महत्प्रमाणस्य चिकीर्पितमस्ति । यथा अबजदप्रमाणे मिलिते कल्पिते । तस्माद्यदि लघुप्रमाणं जदम् अब निःशेषं करोति तँदैदमेवेष्टम् | यदि न करोति तदा जदान्यूनं अहमवशिष्टं कल्पितम् । इदं जदं निःशेषं करिष्यति । अनेन प्रका- १ तृतीयक्षेत्रम् V. २J. inserts तत्र before महत्प्रमाणस्य ३ तदेव- मेवे° D. ४ अनेनैव J., V.