६१
अथ दशमाध्यायः प्रारभ्यते ॥ १० ॥
॥ तत्र नवोत्तरशतमितानि क्षेत्राणि सन्ति ॥
तत्रादौ[१] परिभाषा।
१ रेखाणां क्षेत्रफलस्य घनफलस्य वा यानि[२] प्रमाणानि निःशेषकारकाणि प्राप्यन्ते तानि मिलितप्रमाणान्युच्यन्ते[३] ।
२ यानि प्रमाणानि निःशेषाणि न भवन्ति तानि भिन्नप्रमाणानि स्युः।
३ यासां रेखाणां वर्गाः केनचित् क्षेत्रफलेन निःशेषा भवन्ति ता रेखा मिलितवर्गाभिधाः स्युः।
४ यासां रेखाणां वर्गा एवं न भवन्ति ता रेखा भिन्नवर्गाभिधाः स्युः।
५ अथैकेष्टा[४] रेखा कल्पनीया तद्व्यतिरिक्ताः कल्पितरेखास्तासु काश्चित्तस्याः सकाशात् केवलभिन्नाः[५] स्युः काश्चिद्भिन्ना भिन्नवर्गाश्च स्युः सा रेखा तन्मिलिताश्च रेखास्तस्या वर्गो यत्क्षेत्रफलं[६] तद्वर्गमिलितमसौ[७] मूलदराशिरित्युच्यते।
६ या रेखा तद्भिन्ना भवति यत्क्षेत्रफलं तद्वर्गाद्भिन्नं भवति यद्रेखा वर्गस्तत्क्षेत्रतुल्यो भवति ते करणीशब्दवाच्या[८] भवन्ति ।
॥इति परिभाषा॥
अथ प्रथमं[९] क्षेत्रम् ॥ १ ॥
बृहल्लघुप्रमाणद्वयमस्ति । तत्र बृहत्प्रमाणे किंचिदधिकमर्द्धं शोध्यं यच्छेषं तस्मात् किंचिदधिकमर्द्धं पुनः शोध्यमेवं मुहुः- करणेन यदन्तिमं लघुखण्डमुत्पन्नं तल्लघुराशेर्न्यूनं भविष्यति ।
- ↑ १D.,V and K omit this sentence.
- ↑ २ प्रमाणे निःशेषकारकं प्राप्यते तदा तानि V.,D.,K.
- ↑ ३ प्रमाणान्युच्यन्ते J.
- ↑ ४ अथैकेष्टरेखा J.;अथेष्टा रेखा K.
- ↑ ५ केवलं भिन्नाः J.
- ↑ ६ तत्क्षेत्रफलमिलितवर्गश्च D; तत्क्षेत्रवर्गमिलितश्च B.
- ↑ ७ तन्मूलद° J.
- ↑ ८ ते वर्गा: करणशब्दवाच्या भवन्ति J.
- ↑ ९ प्रथमक्षेत्रम् V.