पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमाध्यायः प्रारभ्यते ॥ १० ॥ ॥ तत्र नवोत्तरशतमितानि क्षेत्राणि सन्ति ॥ तंत्रादौ परिभाषा | १ रेखाणां क्षेत्रफलस्य घनफलस्य वा योनि प्रमाणानि निःशेषकार- काणि प्राप्यन्ते तानि मिलितप्रमाणन्युच्यन्ते । २ यानि प्रमाणानि निःशेषाणि न भवन्ति तानि भिन्न प्रमाणानि स्युः | ३ यासां रेखाणां वर्गाः केनचित् क्षेत्रफलेन निःशेषा भवन्ति ता रेखा मिलितवर्गाभिधाः स्युः | ५ ४ यासां रेखाणां वर्ग एवं न भवन्ति ता रेखा भिन्नवर्गाभिधाः स्युः | अथैकेष्टी रेखा कल्पनीया तव्यतिरिक्ताः कल्पितरेखास्तासु काश्चि- त्तस्याः सकाशात् केवलभिन्नाः स्युः काश्चिद्भिन्ना भिन्नवर्गाश्च स्युः सा रेखा तन्मिलिताच रेखास्तस्या वर्गो यत्क्षेत्रफलं तद्वर्गमिलित- मँसौ मूलदराशिरित्युच्यते । ६ या रेखा तद्भिन्ना भवति यत्क्षेत्रफलं तद्वर्गाद्भिन्नं भवति यद्रेखा- वर्गस्तत्क्षेत्रतुल्यो भवति ते करणीशब्दवाच्या भवन्ति । || इति परिभाषा || अथ प्रेथमं क्षेत्रम् ॥ १ ॥ बृहलघुप्रमाणद्वयमस्ति । तत्र बृहत्प्रमाणे किंचिदधिकम शोध्यं यच्छेषं तस्मात् किंचिदधिकमर्द्धं पुनः शोध्यमेवं मुहुः- करणेन यदन्तिमं लघुखण्डमुत्पन्नं तलघुराशेर्न्यूनं भविष्यति । १D, V and K omit this sentence. २ प्रमाणे निःशेषकारकं प्राप्यते तदा तानि V., D., K. ३ प्रमाणान्युच्यन्ते J. ४ अथैकेष्टरेखा J.; अथेष्टा रेखा K.. ५ केवलं भिन्नाः J. ६ तत्क्षेत्रफल मिलितवर्गश्च D; तत्- क्षेत्रवर्गमिलितश्च B. ७ तन्मूलद° J. ८ ते वर्ग: करणशब्दवाच्या भवन्ति J. ९ प्रथमक्षेत्रम् V.