पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यति । तस्मात् हफनिष्पत्तिर्मदनिष्पत्तितुल्या भविष्यति । अब- जदमध्ये नो नास्ति । तस्मात् दं निःशेषं न करिष्यति । हः फं निःशेषं न करिष्यति । हः प्रथमाकोऽस्ति । तस्मात् हफौ भिन्नाको भविष्यतः । तस्मात् फः दं निःशेषं करिष्यति । अः प्रथमाकोऽस्ति । तस्मात् दम् अबजं विना कोऽपि निःशेषं न करिष्यति । तस्मात् फः तन्मध्ये कोऽपि भविष्यति । स च बः कल्पितः । पुनर्बदयोनिष्पत्ति- र्हलयोनिष्पत्तितुल्यास्ति | हृदयोर्धातो बलयोर्घाततुल्यो भविष्यति झवतुल्यश्च । तस्मात् बं लतुल्यं झवं निःशेषं करिष्यति । बः झवं नतुल्यं निःशेषमकरोत् । तस्मात् नलौ एकरूपौ भविष्यतः । क लिपतौ तु भिन्नौ | इदमशुद्धम् | तस्मात् शवं बिना कोऽपि विभागो न भविष्यति । अयं स्वसर्व विभागयोगतुल्यो जातः । संपूर्णाङ्कश्च जातः । इदमेवास्माकमिष्टम् ॥ ३८ ॥ श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्टयै द्विजेन्द्रः श्रीमत्सम्राडू जगन्नाथ इति सममिवारूढितेन प्रणीते । ग्रन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदात- र्यध्यायोऽध्येतृमोहायह इह विरतिं नन्दतुल्यो गतोऽभूत् ॥ ९ ॥ इति श्रीजगन्नाथसम्राड्विरचिते रेखागणिते नवमोऽध्यायः समाप्तः ॥ ९ ॥