सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६०

तस्मात् हफनिष्पत्तिर्नदनिष्पत्तितुल्या भविष्यति । अबजदमध्ये नो नास्ति । तस्मात् दं निःशेषं न करिष्यति। हः फं निःशेषं न करिष्यति । हः प्रथमाङ्कोऽस्ति। तस्मात् हफौ भिन्नाङ्कौ भविष्यतः । तस्मात् फः दं निःशेषं करिष्यति। अः प्रथमाङ्कोऽस्ति । तस्मात् दम् अबजं विना कोऽपि निःशेषं न करिष्यति । तस्मात् फः तन्मध्ये कोऽपि भविष्यति। स च बः कल्पितः । पुनर्वयोर्निष्पत्तिर्हलयोनिष्पत्तितुल्यास्ति। हदयोर्घातो बलयोर्घाततुल्यो भविष्यति झवतुल्यश्च । तस्मात् बं लतुल्यं झवं निःशेषं करिष्यति ।बः झवं तुल्यं निःशेषमकरोत् । तस्मात् नलौ एकरूपौ भविष्यतः । कल्पितौ तु भिन्नौ | इदमशुद्धम् | तस्मात् झवं बिना कोऽपि विभागो न भविष्यति। अयं स्वसर्वविभागयोगतुल्यो जातः । संपूर्णाङ्कश्च जातः । इदमेवास्माकमिष्टम् ॥ ३८ ॥

श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्टयै द्विजेन्द्रः
 श्रीमत्सम्राड् जगन्नाथ इति समभिधारूढितेन प्रणीते ।
ग्रन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदात-
 र्यध्यायोऽध्येतृमोहापह इह विरतिं नन्दतुल्यो गतोऽभूत् ॥ ९ ॥

इतिश्रीजगन्नाथसम्राड्विरचिते रेखागणिते
नवमोऽध्यायः समाप्तः ॥ ९ ॥