पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ अथाष्टत्रिंशत्तमं क्षेत्रम् ॥ ३८ ॥ रूपादयोङ्का द्विगुणोत्तरा द्विमितनिष्पत्तौ यदि भवन्ति सरूपाणामेतेषां योगः प्रथमाको यदि भवत्यस्य योगस्यान्त्या- कस्य च घातः संपूर्णाङ्को भवति । यथा रूपादयोका अबजदा द्विमितनिष्पत्तौ कल्पिता: । एतेषां योगो हतुल्यः प्रथमाङ्कः कल्पितः । तस्मात् हृदयोर्घातो झवतुल्यः संपूर्णाको भविष्यति । अस्योपपत्तिः । हादयो अवजदनिष्पत्तितुल्याः तकलमा अङ्का ग्राह्याः | तस्मात् अदनिष्पत्तिर्ह मनिष्पत्तितुल्यास्ति । तस्मात् हृदयोर्घातः अमयोर्घात- तुल्यो भविष्यति । तस्मात् अमयोर्घातो झवतुल्यो भविष्यति । अः द्विमितः । तस्मात् झवं मात् द्विगुणं भविष्यति । तस्मात् मं झम् एत- योर्निष्पत्तिर्लभ योर्निष्पत्तितुल्या भ १, अ, २. ब, ४० ज, ८. द, १६. द्द, ३१. विष्यति । पुनर्हेतुल्यं कसं तकात् झव, ४९६. पृथक्कार्यम् । पुनर्हेतुल्यं वर्ग झवात् पृथक्कार्यम् । तस्मात् त- हृ, ३१. ६२. ४९६. -व सहनिष्पत्तिर्झगस्य निष्पत्तिर्मलत- तक ल, १२४. म, २४८. कहयोगेन या भवति तत्तुल्या भविष्यति । तसं हृतुल्यमस्ति । तस्मात् झगम् एतदक्कयोगतुल्यं भविष्यति । हृतुल्यं गवं रूपअबजद- योगेन तुल्यं भविष्यति । तस्मात् झर्व रूपअबजदहतकलमयोग- तुल्यं भविष्यति । अङ्केषु प्रत्येकं झवं निःशेषं करोति । तस्मात् झव- मेतद्भागतुल्यं भविष्यति । एतैर्विनाऽन्येन विभागो न लभ्यते । यदि लभ्यते तदा नविभागः कल्पितः । अयं फतुल्यं निःशेषं करोति । त- स्मात् फनयोर्घातो झवो भविष्यति । एवं हृदघातो झवतुल्यो भावे- झ.