सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७३

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

५७

 यथा अ: जदाद्विन्नोऽस्ति । तद्विगुणात् हजादपि भिन्नो भविष्यति।

 यदि न भवति तदा कल्पितं बम् उभयोरपवर्तनं करोतीति। अयं च विषमाङ्कोऽस्ति । जदमपि निःशेषं करिष्यति। तस्मात् अं जदं च मिलिताङ्कौ भविष्यतः । इदमशुद्धम् । अस्मदिष्टं समीचीनम् ॥

अथ चतुस्त्रिंशत्तमं क्षेत्रम् ॥ ३४ ॥


 द्व्यादिद्विगुणोत्तरा अङ्का: समसमाङ्का भविष्यन्ति ॥

 यथा अः द्व्यङ्कः कल्पितः । द्विगुणा बजदाः कल्पिताः । एते समाङ्काः सन्तीति प्रकटमेव१[] चास्ति । एतेषामादिः अः द्विमितोऽस्ति । स एव प्रथमाङ्कः । एतस्मादधिकाङ्क एनं कोऽपि निःशेषं न करिष्यति। योऽङ्क एतेष्वन्यतमाङ्क निःशेषयत्यसावेतेष्वन्यतमाङ्कतुल्यमेव निःशेष करिष्यति। तस्मात् प्रत्येकं समसमाङ्को जातः । इदमेवेष्टम्॥

अथ पञ्चत्रिंशत्तमं क्षेत्रम् ॥ ३५ ॥


 यस्याङ्कस्यार्द्धं विषमाङ्को भवति स समविषमाङ्क: स्यात् ।

 यथा अबस्यार्द्धम् अजं कल्पितम् । अजं अब वारद्वयं निःशेषं करोति । अयं समसमाङ्को न भविष्यति । यदि भविष्यति तदाऽस्यार्द्धं समाङ्को भविष्यति । तस्मादयं समविषमाङ्को जातः । इदमेवेष्टम् ॥

अथ षट्त्रिंशत्तमं क्षेत्रम् ॥ ३६ ॥

 योऽङ्को द्व्यादिद्विगुणेषु मध्ये न भवति यस्यार्द्धं विषमाङ्कश्च न भवति सोऽङ्कः समसमः समविषमश्च भवति ।

  1. १वास्ति K. भा. ८